________________
अलंकारकौस्तुभः ।
१५३ वापन्नयोः स्तिमितनेत्रत्वसुप्तमीनत्वयोरुपपत्त्यर्थं तदुपादानात् । कचित्तु लिङ्गभेदेऽप्यदोषः । तदुक्तम्
_ 'दृष्टः पुनपुंसकयोः प्रायेण' इति ॥ काव्यादर्शेऽपि... 'न लिङ्गवचने भिन्ने न न्यूनाधिकतापि च ।
उपमा दूषणायालं यत्रोद्वेगो न धीमताम् ॥' 'चन्द्र इव मुखम्' इत्यादावित्यर्थः । एवं 'प्राणा इव प्रियोऽयं मे' इत्याद्यप्युदाहरणीयम् ।
अन्यदप्युक्तं वामनेन
'लौकिक्यां समासाभिधानायामुपमाप्रपञ्चे च' इति । लौकिक्यां समासगम्यायां चोपमायामुपमाप्रपञ्चे प्रतिवस्तूपमादौ च लिङ्गभेदः प्रायेण न दुष्ट इत्यर्थः । लौकिक्यां यथा
_ 'छायेव पुरुषस्तस्याः पुरुष इव""स्त्री ।' इति छायापदे पुंस्त्वपदे च स्त्रीत्वस्य बाधितत्वात्तत्प्रतियोगिकसादृश्यवर्णनस्य तत्पदाप्रयोगेऽसंभवात् ।
'नवाङ्गनेवाङ्गनेऽपि गन्तुमेव प्रकम्पते ।
इयं सौराष्ट्रजा नारी महाभट इवोद्भटा ॥ इत्यादावपि ज्ञेयम् । समासाभिहितायां यथा'अनुभवन्नवदोलमृदुस्तवं पटुरपि प्रियकण्ठजिघृक्षया ।
अनयदासनरज्जुपरिग्रहे भुजलतां जडतामबलाजनः ॥" षत्वाभिधानान्न दोषः ॥ न लिङ्गेति । एतद्रहस्यं तु प्रागेव प्रपञ्चितम् ॥ अनुभवनिति । रघुवंशे वसन्तवर्णनम् । पटुरपि निपातप्रतीकारसमर्थोऽपीत्यर्थः ॥ भुजौ लते इवेति उपमितसमासः । प्रियकण्ठग्रहस्य भुजसाध्यतया तत्प्राधान्यापवादकरूपकानङ्गीकारात् । 'यमकादौ भवेदैक्यं डलो वबोः शसोस्तथा' इति लकारडकारयोरैक्यानुशासनाद्यमकनिर्वाहः ॥ उपमानोपमेययोः स्त्रीपुंस्त्वभेदमुदाहृत्य क्लीबत्वस्त्रीत्वाभ्यां भे
२०