________________
१५२
काव्यमाला।
तुल्यत्वे सति तदिति वाच्यम् । काव्यस्य शशितुल्यत्वसिद्ध्यार्थानां रश्मितुल्यत्वम्, तत्संसिद्धौ वा काव्यस्य शशितुल्यत्वं सिध्यतीत्यन्योन्याश्रयात् । असंभवो यथा
'चकास्ति वदनस्यान्तः स्मितच्छायाविलासिनः ।
उन्निद्रस्यारविन्दस्य मध्ये मुग्धेव चन्द्रिका ॥' अत्रोन्निद्रारविन्दे चन्द्रिकाया असंभव एव । तदेते षडुपमादोषाः॥ क्वचित्त्वदोषा अप्येते । 'चन्द्र इव मुखम्' इत्यत्र जातिप्रकर्षः 'मध्यं यणुकमिव' इत्यत्र परिमाणतो न्यूनत्वं न दोषः, कविसंमतत्वात् । तथा एकत्रानेकोपमानसंबन्धे वाच्ये उपमेये धर्माधिक्यं यथा'क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्रियामा ।
नवं नवं क्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ॥' . अत्र वेलासादृश्ये फेनदुकूलयोः शरद्रात्रिसादृश्ये चन्द्रदर्पणयोर्बिम्बप्रतिबिम्बभावः । तत्र वेलाप्रतियोगिकसादृश्ये दर्पणस्य रात्रिप्रतियोगिकसादृश्ये च दुकूलस्याधिक्यमदोषः । स्वखोपमायां तयोरुपयुक्तत्वात् ॥
तथा साधारणधर्मवत्तासंपादनार्थत्वे आधिक्यमदोषः । यथा
'इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः।।
क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव हृदः ॥' इह 'विज्ञापितः' इति विशेषणं 'ध्यानस्तिमितलोचनः' इत्यत्रोपयुक्तत्वादुक्तम् । तेन हृदपक्षे तादृशविशेषणाभावेऽप्यदोषः । बिम्बप्रतिबिम्बभाकानुरागहीनत्वम् । कुलवधूः पतिव्रतेत्यर्थः । लिङ्गभेदोऽप्यत्र बोध्यः ॥ अन्योन्याश्रयादिति । न चैवं परम्परितोपमारूपकयोरुच्छेदापत्तिरिति वाच्यम् । प्रकृतेरश्मीनामर्थानां च सादृश्ये धर्मस्याप्यप्रसिद्धत्वात् । परस्परसादृश्यापनकाव्यचन्द्रसंबन्धित्वस्यैवार्थरश्मीनां साधर्म्यस्य वाच्यत्वात् । अर्थरश्मीसाधात्पूर्व च काव्यचन्द्रसादृश्यस्यैवासिद्धेः । युद्धादेरन्तःपुरायारोपे च सुखसंचारास्पदत्वादिनापि निर्वाहात् ॥ असंभव एवेति । चन्द्रिकायां पद्मस्य मुकुलितत्वनियमात् ॥ ननु मुग्धेव चन्द्रिकेत्युत्प्रे. क्षैवास्तु, तत्र चासंभवो न दोषः । प्रत्युतानुकूल एव 'यदा पुनरयं लोकादसिद्धः कविकल्पितः' इत्यादेरुत्प्रेक्षाव्यवस्थापकत्वादिति चेत् । सत्यम् । उपमानत्वविवक्षायामेव दो.