________________
अलंकारकौस्तुभः । . . १५१ अत्र पातालाद्युपमानं स्तनायुपमेयादधिकपरिमाणम् ॥ न चैवम् 'अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि' इत्यादीनामनुपपत्तिरिति वाच्यम् । तत्राहार्यारोपे दुष्टत्वादित्याहुः । धर्माधिक्यं यथा
'खरश्मिचञ्चलं वक्रं दधद्देवो व्यराजत । ___ स वाडवाग्निः सांवतः स्रोतसामिव नायकः ॥' अत्र वाडवाग्नेरुपमेयं नोक्तम् । तत्र लिङ्गभेदो यथा
'सैन्यानि नद्य इव जग्मुरनिर्गलानि ।' यथा वा
'चिन्तारत्नमिव च्युतासि. करतो धिङ्मन्दभाग्यस्य मे।' अत्र च्युत इति पुंलिङ्गं रत्नेन नपुंसकेन नान्वेति इति काव्यप्रदीपः । च्युतासीति नायिकां प्रत्युक्तिरिति ॥ वचनभेदो यथा
___ 'सक्तवो भक्षिता देव शुद्धाः कुलवधूरिव ।' इह शुद्धा इति बहुवचनं विरुद्धत्वादुपमेये एकवचनान्ते नान्वेति ॥ वेदेऽपि यथा
'अग्निर्न ये भ्राजसो रुक्मवक्षसः ।' अत्र-'अग्निरिव ये भ्राजस्वन्तो रुक्मवक्षसः' इति निरुक्तम् । असादृश्यं यथा___'प्रश्नामि काव्यशशिनं विततार्थरश्मिम् ।'
अत्र काव्यचन्द्रयोः सादृश्यहेतुधर्मो न प्रसिद्धः । न चार्थानां रश्मिपमानत्वपर्यवसानात् । स्तनादीति । षष्टीसमासेन नाभिग्रहणात् तदाद्यपेक्षयेति । मध्यमपदलोपादिनार्थो बोध्यः ॥ उपमानोपमेययोः स्त्रीत्वक्लीबत्वरूपलिङ्गभेदमुक्त्वा क्लीबत्वपुंस्त्वभेदमाह-यथा वेति । अत्रैवोपमेयस्य स्त्रीत्वेनापि लिङ्गभेदमाहच्युतासीति ॥ शुद्धाः शर्करादिमधुरद्रव्यसंयोगहीनाः । पक्षे शुद्धत्वं अन्य विषय१. 'नाभ्या' मूलपुस्त०.