________________
१५०
काव्यमाला। कव्यक्तिसमवेतत्वरूपाया जातेरुत्कर्षापकर्षानुपपत्तिरिति वाच्यम् । तथापि व्यक्तावुत्कर्षापकर्षसत्त्वेन हीनव्यक्तिवृत्तित्वरूपस्यैव न्यूनत्वस्य जातौ विवक्षितत्वात् ॥ एतेनोत्कृष्टत्वमपि व्याख्यातम् ।
प्रमाणतो न्यूनत्वं यथा___'वह्निस्फुलिङ्ग इव भानुरयं विभाति ।' इह स्फुलिङ्ग उपमानम् , उपमेयसूर्यापेक्षया न्यूनपरिमाणम् । उपमेयापेक्षयोपमानस्य न्यूनधर्मत्वं यथा
‘स मुनिर्लाञ्छितो मौळ कृष्णाजिनपटं वहन् । — व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान् ॥'
अत्र मुनिसूर्ययोरुपमायां कृष्णाजिननीलमेघयोर्बिम्बप्रतिबिम्बभावः । मुनौ मौर्वीवत्सूर्ये तत्स्थानीयधर्मानुपन्यासः । तथा च रामायणे'निद्रामन्दपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः ।
अनुजग्मुः पतिं वीरं मेघं विद्युल्लता इव ॥' एवमधिकत्वमपि त्रेधा । तत्र जात्या अधिकत्वं यथा
'विशन्तु वृष्णयः शीघ्रं रुद्रा इव महौजसः ।' इह रुद्राणामेकादशत्वात्तद्वृत्तिरुद्रत्वं जातिः । प्रमाणाधिक्यं यथा'पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ ।
वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः ॥' क्यङ्प्रत्यये सकारलोपः, अकारान्तादेव तत्प्रत्यये तु स्पष्टम् ॥ व्याख्यातमिति । उत्कृष्टव्यक्तिवृत्तित्वमेव जातेरुत्कृष्टत्वमित्यर्थः । उत्कर्षापकर्षों चोपमेयापेक्षया बोध्यौ ॥ तत्स्थानीयेति । तत्प्रतिबिम्बभूतेत्यर्थः ॥निद्रामन्देति । अत्र आद्यचरणोक्तस्त्रीधर्मस्थानीयधर्मस्य विशुदल्लीष्वनुपादानादुपमानस्य धर्महानिरित्यर्थः । यदि तु तद्विशेषणं तत्समययोग्यतामात्रेण स्त्रीषु निर्दिष्टमतो न दोष इत्युच्यते, तर्हि वीरमिति रावणविशेषणप्रतिबिम्बधर्मस्य मेघदिश्य(?)नविधानान्यूनत्वमवधेयम् । रावणमेघयोरप्युपमेयो. १. 'मौज्या' क. २. 'मौजी' क.