________________
अलंकारकौस्तुभः ।
इयमपि च मां वैदर्भीय स्थल ग्लपिताम्बुजव्यथितवदना नाद्याप्येनं जहाति सरोजिनी || अत्रोपमान्तरेण नलसरसोरुपमासिद्धौ सावयवत्वम् । उपमानोपमेयानां च शाब्दत्वात्समस्तवस्तुविषयत्वम् । एकदेशवर्तिनी सावयवा यथा
१४७
'वर्षोदकमुद्रिता श्रवणान्तविलम्बिना कदम्बेन । एकस्तनोऽभिषिक्तो नृपसुत इव यौवराज्यस्थः ॥'
अत्र हि कदम्बे कलशोपमया गम्यमानया वसन्तसेनया स्तने नृपसुतोपमासिद्धिः । सा चार्थगम्या । कलशसादृश्यस्याशाब्दत्वादित्येकदेशवर्तित्वम् ।
यथा वा मम -
'निःश्वासा मलयानिला इव पिकालापानुकारा गिरो रक्ताशोकलताप्रवालसदृशं पाणिद्वयं विद्यते । प्रोल्लासविजृम्भितं सुतनुते भृङ्गप्रतानायते
स प्राप्यासमसायकोsपि भवतीं लोकत्रयीनायकः ॥ ' अत्र शाब्दीभिरुपमाभिर्नायिकाया वसन्तलक्ष्मीसादृश्यसिद्धिः । शुद्धश्लेषपरम्परितोपमा यथा मम—
'मृगमदपकश्यामे प्रोत्तुङ्गे तव पयोधरे तन्वि । हारमणिकान्तिलेखा विलसति सौदामनीवेयम् ॥'
इह पयोधरवाच्ययोर्मेघस्तनयोरुपमया कान्तिलेखायां विद्युदौपम्यसिद्धिः । इयमेव मालारूपा यथा
‘लेखेव या चान्द्रमसी कलानां रसस्य या पुष्करिणीव पूर्णा । निष्कैतवस्थानमियं रुचीनामानन्दवद्भाति सरोरुहाक्षी ॥'
के शुष्कतडागमालोक्य नलवचनम् ॥ वर्षोदकमिति । मृच्छकटिकाख्यनाट के चारुदत्तोक्तिः ॥ लेखेति । चन्द्रलेखायाः षोडशभागात्मक कलाबाहुल्यवन्नायिकायाः कामशास्त्रादिकलाभिज्ञत्वात् । रसस्य शृङ्गारस्य जलस्य चेत्यर्थः । निष्कैतवमिति । कान्तिपक्षे— अन्यापेक्षापकर्षरहितमिति । इच्छापक्षे निरुपाधीत्यर्थः । सुखस्य स्वतः पुरु