________________
१-४६
काव्यमाला
आमृष्टगण्डतिलकानि मुखान्यचुम्बद्रागीव रेणुरवनेः सुरसुन्दरीणाम् ॥'
मालारूपा यथा
'आवर्ता इव मण्डलीषु पयसां वेगा इवात्यन्तिका धारास्खर्धपुलायितेषु तरलोत्तुङ्गास्तरङ्गा इव । कण्ठे कोमलशैवलावलिमिवालग्नां वहन्तः सटां राजन्साहजिकीं वहन्ति बहुधा सिन्धोः स्थिति सैन्धवाः ॥' द्वितीयाद्विधा - समस्तवस्तुविषया, एकदेशविवर्तिनी च । आद्या यथा
'अहं रथाङ्गनामेव प्रिया सहचरीव मे । अननुज्ञातसंपर्का धारिणी रजनीव नौ ॥'
अत्राग्निमित्रमालविकयोश्चक्रवाकसादृश्यसिद्धौ तत्संगमप्रतिबन्धकत्वेन
धारिण्या देव्या रात्रिसादृश्यसिद्धिः ।
यथा वा
‘कर्णेनेव विषाङ्गनैकपुरुषव्यापादिनी रक्षिता
हन्तुं शक्तिरिवार्जुनं बलवती या चन्द्रगुप्तं मया । सा विष्णोरिव विष्णुगुप्तहत कस्यात्यन्तनिःश्रेयसे हैडम्बेयमिवेत्य पर्वतनृपं तद्वध्यमेवावधीत् ॥'
यथा वा
‘श्रिय इव ममास्यापो दूरीकृतावधिनिग्रहैरहमिव परित्यक्तः पैौरैरयं जलजन्तुभिः ।
आद्यविशेषणस्य निबिडदुर्दिनतया चञ्चलवृत्तिरित्यर्थः । आरात्समीपत आरब्धं गात्रस्य मलिनं येन । ‘मलिनं पटवासे स्यान्मलिनं स्पर्शने स्मृतम्' इति विश्वः ॥ अहमिति । मालविकाग्निमित्रनाटके अग्निमित्रस्य राज्ञ उक्तिः ॥ कर्णेनेवेति । मुद्राराक्षसे अमात्यराक्षसोक्तिः । विष्णुगुप्तश्चाणिक्य इत्यर्थः । हिडम्बाया राक्षस्या अपत्यं हैम्बेयः । घटोत्कच इति यावत् । यथा कर्णेन अर्जुनवधार्थमवस्थापितया शक्त्या श्रीकृष्णेन यज्ञादिविघ्नकरतया स्ववध्यत्वाभिमतो घटोत्कचो घातितः, तथा चन्द्रगुप्तवधार्थं राक्षससंज्ञेनामात्येन स्थापितया विषकन्यकया चाणक्येनार्धराज्यहारितया स्ववध्यः पर्वतसंज्ञको राजा घातित इति समुदायार्थः ॥ श्रिय इवेति । नैषधानन्दना