________________
१४८
काव्यमाला । अत्र चतुःषष्टिकलाशृङ्गारकान्तीनां षोडशकलाजलेच्छासादृश्यन नायिकाया इन्दुलेखासरसीमुखसादृश्यनिःपतिहेतुः । इदं च परम्परितभेदद्वयं रसगङ्गाधराद्यनुरोधादुक्तम् ।
वस्तुतस्तु-एकपदोपस्थाप्ययोरपि कथं परस्परं भेदान्वयः । 'विद्वन्मानस-' इत्यादौ तु मनःसरसोरभेदान्वय एव खीकृतः । अत एव
'नेरिवोत्पलैः पद्महस्तैरिव सरःश्रियः ।
पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ।' इत्यादावेकदेशवर्तित्वमश्लेषस्थल एवोपमायाः स्वीकृतं प्रामाणिकैः ॥ कथं तर्हि उदाहृतश्लिष्टपरम्परितस्थले तदुपमासिद्धिरिति चेत् । तदभेदज्ञानादेव ॥ धर्माभेदज्ञानस्य धर्म्युपमायां नानुकूलत्वं किं त्वभेद एवेति चेत्, न । बिम्बप्रतिबिम्बादौ तदभेदज्ञानस्य साधारण्यनियामकतायाः षार्थत्वेन निरुपाधीच्छाविषयत्वात् ॥ रसगङ्गाधरादित्यादिपदेन चित्रमीमांसासंग्रहः ॥ कथमिति । नामार्थतया तादात्म्यसंबन्धेनैवान्वयस्य युक्तत्वादित्यर्थः । तदभे. देति । धर्माभेदेत्यर्थः । तदेव दर्शयन्नाह-धर्माभेदेति ॥ किं त्विति । विद्वन्मानसेत्यादौ सरश्चित्तयोरभेदारोपेण राज्ञि हंसाभेदारोपाभ्युपगमादिति भावः ॥ सर्वेति । वस्तुतो भिन्नयोः परस्परसादृश्यादभिन्नतयाध्यवसितयोर्द्विरुपादानं बिम्ब. प्रतिबिम्बभाव इति चित्रमीमांसादर्शनात् । असाधारणानामपि धर्मान्तराणां सादृश्यमूलेनाभेदाध्यवसायेन साधारणत्वकल्पनादुपमासिद्धिरिति रसगङ्गाधरदर्शनाच्च । इदं च भेदस्य स्फुटप्रतिपत्त्यर्थमुक्तम् । अनुगामिस्थलेऽपि वस्तुतो मुखचन्द्रादिगतरमणीयत्वादेभिनतया तादात्म्याध्यवसानं विनानुपपत्तेरिति बोध्यम् । किं च ॥ बृहदारण्यकश्रुतौ 'यथा वृक्षो वनस्पतिस्तथैव पुरुषो मृषा । तस्य पर्णानि लोमानि त्वगस्योत्पादिका बहिः ॥' इत्याद्यनन्तरं 'अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता' इत्यत्र धर्म.
१. 'षष्टिश्लिष्ट' क.
१. 'यथा लोके वृक्षो वनस्पतिः, तथैव तत्सधर्मे पुरुषाः इत्येतदमृषा न मिथ्या सत्यमेव तस्य पुरुषस्य लोमानि तत्स्थानीयानि वनस्पतेः पर्णानि । त्वगस्य पुरुषस्य तत्स्थानीया न बहिरुत्पादिका सर्वापेक्षया बहिभूता त्वम् । अस्य पुरुषस्य अस्थिसंलग्नधातुविशेषेभ्योऽभ्यन्तरतोऽस्थीनि भवन्ति तत्स्थानीयानि वृक्षस्यान्तरतो दारूणि काष्ठानि। मजाशब्देनोभयत्रास्थिकाष्ठगतं ब्रह्मेहोच्यते । स च वृक्षपुरुषयोर्मजावन्मजाया उपमा कृता । ताभ्यो विशेष इत्यर्थः ।' इत्यधिकं प्राक् क-पुस्तके.