________________
१४४
काव्यमाला ।
सुवृत्तमसृणोन्नतैर्मुगदृशामुरोजैरिव ___ त्वदीयतुरगोत्तमैर्धरणिचक्रमाकम्पते ॥ पूर्वोपमोपमेयं यद्युपमानं परोपमायां स्याद ।
रशनोपमेयमुक्ता द्वैविध्यं प्राग्वदेवास्याः ॥ १५ ॥ प्रथमोपमायां यदुपमेयं तच्चेदुत्तरोपमायामुपमानं भवति सा रशनोपमा। सामान्यधर्मभेदे अभेदे चेति प्राग्वदित्यस्यार्थः । तद्भेदे यथा
'अधर इवोक्तिर्मधुरा तनुलक्ष्मीरुक्तिवद्विशदवर्णा ।
तनुरिव मनोहरा दृग्दृगिव मृगाक्ष्याः सुदुःसहो विरहः ॥' अत्र माधुर्यादिधर्माः प्रतिवाक्यं भिन्नाः । अभेदे यथा ममैव'अतितारुण्यविकासादनुदिवसविजृम्भमाणवदनायाः ।
दृगिव गतिर्गतिरिव धी(रिव गीर्गीरिवातिवका भ्रूः ॥' अत्र वक्रत्वं सर्वत्र सामान्यधर्मः । भरतेन तु प्रशंसानिन्दयोरप्युपमाभेद उक्तः । तत्र प्रशंसायां] यथा'आलप्य तां विशालाक्षी तुतोष मनुजाधिपः ।
मुनिभिः साधितां कृत्वा सिद्धिं मूर्तिमतीमिव ।' स्योक्तिः । बहूपमानकबहूपमेयकोपमायाः भरतकारिकाद्वितीया|पदिष्टाया इदमुदाहरणम् । इदं च सामान्यधर्मैक्ये द्रष्टव्यम् । तद्भेदेनाह-अत्रैवेति ॥ अधर इवेति । माधुर्यमधरस्यानुभवसिद्धो रसविशेषः । उक्तेस्तु गुणविशेषः । तथा च भरतः'बहुशो यच्छ्रुतं वाक्यमुक्तं वापि पुनः पुनः । नोद्वेजयति तस्माद्धि तन्माधुर्यमिति स्मृतम् ॥' विशदवर्णत्वं स्वच्छरूपत्वम्, उक्तेस्तु प्रसादरूपो गुणः । स च भरतेनोक्त:'अप्यनुक्तो बुधैर्यत्र शब्दोऽर्थो वा प्रतीयते । सुखशब्दार्थसंयोगात्प्रसादः परिकीर्तितः ॥' यद्यप्युपमेयोपमायां सादृश्यार्थकशब्दस्याप्यैक्यनियमो दृश्यते । तथाप्यत्र उपमेयस्य भिनपदार्थत्वात् इवादेरप्यनियमे दोषाभावादुक्तिपदानन्तरं वतिप्रत्यय. प्रयोगः । यदि तु इवादिपदैक्येऽपि प्रमाणमुपलभ्यते, तदा उक्तिरिवेत्येव पाठो द्रष्टव्यः । वक्रत्वमिति । दृशो वक्रत्वमपाङ्गविजृम्भणात् । गतेश्च विलासहेतुके वैलक्ष.
१. 'दृष्ट्वा तु ताम्' भरत..