________________
अलंकारकौस्तुभः। 'एकत्रानेकेषां साधर्म्यम्' इतीयमुपमा भरतेनोक्ता
'श्येनबर्हिणभासानां तुल्याक्ष इति या भवेत् ।
एकस्य बहुभिः सार्धमुपमा नाटकाश्रयो ।' बहुष्वेकस्य सादृश्यरूपोऽपि भेदस्तत्रोक्तः । यथा
'चन्द्रवत्संप्रकाशन्ते ज्योति जो द्विजोत्तमाः ।
एकेन सा त्वनेकेषामुपमा परिकीर्तिता ॥' इयं च सामान्यधर्मैक्य एव संभवति । उपमानस्यैकत्वादिति ध्येयम् । तत्रैव यथा
'तुल्यन्ते शशिना वक्राणीति सैककृता भवेत् ॥
'घना इव गजा यत्र बहूनां बहुभिस्तु सा ॥' हरिवंशेऽपि'जलावलम्बाम्बुदवृन्दकर्षी घनैर्घनान्योधयतीव वायुः ।
प्रवृत्तचक्रो नृपतिर्विनस्थानाजान्गजैः खैरिव वीर्यदृप्तान् ॥' अत्रैव सामान्यधर्मभेदे यथा'अलक्षितगतागतैः कुलवधूकटाक्षैरिव
क्षणानुनयशीतलैः प्रणयकेलिकोपैरिव ।
ऋषिस्तुतिरपि, अथाप्यषयः स्तूयन्त इति निरुक्तकारोक्तेः । वक्ष्यथ इति महदर्थकम् । वशिष्टा इति श्रेष्ठार्थकं संबोधनम् । वो युष्मान् । अन्वेतवे अन्वेतुम् । अनुकतुमिति यावत् । तुमर्थे तवेप्रत्ययश्छान्दसः । श्येनेति । भरतकारिकायां इयेनादिपदानां तत्तदक्षिलक्षणा । बहुष्विति । अनेकप्रतियोगिकसादृश्यस्योपमेयोत्कर्षातिशयाधायकवत् एकप्रतियोगिकानेकवृत्तिसादृश्यस्य एकप्रतियोगिकैकवृत्तिसादृश्यापेक्षया विलक्षणचमत्कारजनकत्वं नास्तीत्यस्य पृथगस्माभिरनुक्ति रित्यर्थः । इयं चेति । यथा एकस्मिन्नुपमेये एकप्रतियोगिकसादृश्यवर्णनं अभिनधर्मनिर्वाह्यं तद्वदिहापि उपमान एव भिन्नधर्मसंभवादित्यर्थः । हरिवंशेऽपीति । । वज्रनाभवधे प्रभावतीं प्रति प्रद्युम्न
१.'साम्यादुपमा' भरत०.२. शशाङ्कवत्प्रकाशन्ते ज्योतीषीति भवेत्तु या। एकस्यानेकविषया सोप' भरत०. ३. इतोऽग्रे किंचिद्वैदिकोदाहरणं भवेत् । टीकायां सूर्यस्यैवेतीति प्रतीकदर्शनात् । पुस्तकान्तरे तु 'यथा वा' इत्यपि नोपलभ्यते । टीकायां पुस्तकद्वयेऽपि व्याख्यानमुपलभ्यते. ४. 'तुल्यं ते शशिना(भिः) वक्रमित्येके (?) नेकसंश्रया' भरत..