________________
काव्यमाला |
अत्रोद्वेगजनकत्वं सर्वत्रोपमानिमित्तधर्मः स चाक्षिप्तः ।
श्रूयमाणस्तु यथा—
'वाहि व्व वेज्झरहिओ धणरहिओ सुअणगेहवासो व्व । रिउरिद्धिदंसणं विअ दूसहणिजो तुह विओऊ ॥' अत्र दुःसहत्वं सर्वत्रैको धर्मः ।
तद्भेदे यथा
१४२
'मातेव रक्षति पितेव हिते नियु
कान्तेव चाभिरमयत्यपनीय दुःखम् । कीर्तिं च दिक्षु वितनोति तनोति कीर्ति किं किं न साधयति कल्पलतेव विद्या ॥' अत्र रक्षणादयो धर्मा भिन्नाः ।
यथा वा
'जलइ वडवाणो विअ फुट्टइ सेलो व्व रामवाणाहिहओ । रसइ जलउ व्व उअही खुहिओ लइ मारुओ व्व णहअलम् ॥' अत्र ज्वलनादयो भिन्ना धर्माः ।
यथा वा
.............[सूर्यस्यैव].....[वक्षथः] [वसिष्ठा].......[अन्वे
तवे ] "
....... ....... १
....
•
गोधनरहितं गोष्ठमिव तस्या वदनं तव वियोगे ॥' [इति च्छाया ।] 'व्याधिरिव वैद्यरहितो धनरहितः सुजनगेहवास इव । रिपुऋद्धिदर्शनमिव दुःसहस्तव वियोगः ॥ [इति च्छाया ।] क्वचित्तु सामान्यधर्मानुपादानेऽपि तदापेक्षकस्य शाब्दत्वं यथा—'वाप्यां स्नाति विचक्षणो द्विजवरो मूर्खोऽथ वर्णाधमः फुल्लां नाम्यति वायसोऽपि ह
•
तां या नामिता बर्हिणा । ब्रह्मक्षत्रविशस्तरन्ति हि यया नावा तयेवैतरे त्वं वापीव लतेव नौरिव जनं वेश्यासि सर्वे भज ॥' अत्र सर्वोपभोग्यत्वरूपधर्मोपपादकमाद्यउदाहरणत्रयम् । धर्म इति । श्रूयमाण इति पूर्वेणान्वयः ॥ ' ज्वलति वडवानल इव स्फुटति (च) शैल इव रामबाणाभिहतः । रसति जलद इवोदधिः क्षुभितो लङ्घयति मारुत एव नभस्तलम् ॥' [इति च्छाया ।] सेतुकाव्ये श्रीरामशराहत समुद्रक्षोभवर्णनम् । अत्र रामबाणाभिहतत्वं समुद्रांशे तत्तद्भिन्नधर्मप्रयोजकमिति पूर्वस्माद्विशेषः ॥ [ सूर्यस्यैवेति ।
१. 'परिभाषिता' ख.
१. एतदादिकस्य छान्दस इत्यन्तस्य ग्रन्थस्य मूलं नोपलभ्यते । एकस्मिन्मूलपुस्तके 'यथा वा' इत्येवोपलभ्यते । अग्रे तूदाहरणं किमपि न दृश्यते.