________________
अलंकारकौस्तुभः ।
१४१
न्विच्छति इत्यायःशूलिकः । अत्र हि उपमेयधर्मवाचकानां त्रयाणामपि लोप इति ।
अत्राहुः—क्रूरस्याचारस्यायः शूलतयाध्यवसानादतिशयोक्तेरेवात्र विषयसत्त्वादुपमाविरहात् । अत एव महाभाष्यमपि 'अयः शूलमिवायः शूल: यो मृदुनोपायेनान्वेष्टव्यानर्थान् रभसेनान्विच्छति स उच्यते आयःशूलिकः' इति । कैयटश्चाह – 'यथायः शूलं तीक्ष्णम्, एवमन्योऽपि तीक्ष्ण उपायोऽयःशूलमुपचारादिति' । एवं ' पार्श्वेनान्विच्छति पार्श्विकः' इत्यत्रापि अतिशयोक्तिरेव । 'यथा पार्श्व तिर्यगवस्थानादनृजु तथान्योऽनृजुरुपायः पार्श्वमिति कैयटेन व्याख्यानात् । एवमेकोनविंशतिभेदा लुप्ता | अत्र केचिदुपमाया भेदान्तराणि स्वीकुर्वन्ति । ते यद्यपि वैचित्र्याभावादुक्तभेदेष्वेवान्तर्भवन्ति तथाप्यवान्तरवैचित्र्यसत्त्वादाकरानुमतत्वाच्चोदाहियन्ते ।
तथा च भरतः
--
'एकस्यैकेन सा कार्या ऐकस्य बहुभिस्तथा । अनेकेषां तथैकेन बहूनां बहुभिस्तथा ॥'
इति ।
तदुक्तं द्वितीयभेदमाह - मालोपमोपमेयेऽप्येकस्मिश्चेद्वहृपमानसंबन्धः । सामान्यधर्मभेदाभेदाभ्यां सापि च द्वेधा ॥ १४ ॥
स्पष्टोऽर्थः ।
तत्र सादृश्यनिमित्तधर्माभेदे मालोपमा यथा -
'गेहं व वित्तरहिअं उज्झरकुहरं व सलिलसुण्णकिअं । गोहणरहिअं गोट्टं व तीए वअणं तुह विओए ॥'
भावः॥ नन्ववान्तरवैचित्र्यसत्त्वेऽपि पृथगभिधानमनर्ह एवंविधवैचित्र्यसहस्रसंभवादित्यत आहह-आकरेति । आकरसंमतिमेव दर्शयति - तथा चेति । अनेकोपमाननिरूपितं सादृश्यमित्यर्थः । ' गेहमिव वित्तरहितं निर्झरकुहरमिव सलिलशून्यीकृतम् ।
१. 'न्विष्यतीत्या' ख. २. 'कार्यानेकेनाप्यथवा पुनः । अनेकस्य तथैकेन' इति भरतसूत्रे पाठः. ३. ‘मालोपमेयमुक्ताप्येकस्मिंश्चेद्वहूपमान संबन्धः' इति पाठोऽलंकारमुक्तावल्याम्.