________________
काव्यमाला । बीहिर्वाच्यः । उत्तरेषामिव पदोपमानार्थकमुखपदादीनां लोपः' इत्यर्थ वदन्ति काव्यप्रदीपादयः सर्वे व्याख्यातारः ।
वस्तुतस्तु उत्तरपदशब्दस्य समासान्त्यावयवे रूढिरिति वैयाकरणसंप्रदायादुपमेयभूतमुखपदस्यैवात्र लोपेन भाव्यमिति सूरिभिर्विभावनीयम् । अतो धर्मद्योतकोपमेयलुप्तैवेयमुपमेति युक्तं समपदम् ।
कैयटस्त्वाह--अप्रयोग एवात्र लोपशब्देनोच्यते । तथा हि-उष्ट्रो मुखमस्येत्येव विग्रहः । न च प्राणी प्राण्यन्तरावयवो भवति इति उष्ट्रशब्दस्य तन्मुखे लक्षणेति । अस्मिंस्तु पक्षे 'नात्रोपमादिलोपप्रसङ्गः' इति पूर्वपक्ष एवेदमुदाहरणं बोध्यम् ।
अत्र केचित्-उपमानमात्रोपादानेऽपि त्रिलुप्ता संभवति । यथा 'अयमायःशूलिकः' इति । अत्र हि अयःशूलमिव तीक्ष्ण आचारस्तेनायकं प्राचां व्याख्यानं दूषयति-वस्तुतस्त्विति । नन्वेतदसंगतम् । तथा हि यस्योपमानपूर्वपदस्य पदान्तरेण सह समासो विधेयस्तत्रत्यमुत्तरपदमत्र गृह्यते, न तु बहुव्रीहेरेव । येन द्वितीयाक्षिशब्दस्य लोपः स्यात् । अत एव 'शाकप्रियः पार्थिवः शाकपार्थिवः' इत्यत्र 'शाकपार्थिवादीनामुत्तरपदलोपश्च' इति वचनेन शाकप्रियेति स. मासे तदुत्तरपदं प्रियपदरूपं तस्यैव लोपः, न तु एतद्वचनविधेयसमासोत्तरपदभूतस्य पार्थिवपदस्य । किं बहुना-'सप्तम्युपमान-' इत्यादिप्रकृतवार्तिकेनैव धनं करे स्थितं यस्य सः करधन इत्यत्रैव उत्तरपदलोपः। स पूर्वसमासे उत्तरपदभूतस्य स्थितशब्दस्यैव। न त्वेतद्विधेयबहुव्रीहिसमासोत्तरपदभूतधनशब्दस्य, करधन इति रूपासिद्धिप्रसङ्गात् । एवं चोक्तसंप्रदायस्य विरोधाभावात् , कथमत्र द्वितीयाक्षिशब्दस्य लोप इत्युक्तमिति चेत् , सत्यम् । यथा श्रुतग्रन्थे उक्तदूषणप्रतिभासेऽपि ग्रन्थस्याभिप्रायान्तरेणैव प्रवृत्तत्वात् । तथा हि-संप्रदायादिति । बहुव्रीहिपूर्वपदभूते उष्ट्रमुखेति शब्दे मुखशब्द एवोत्तरपदम् , न विवादिरपि, येनोत्तरपदतया इवादीनामप्युक्तवचनेन लोपः स्यादिति भावः ॥ अत इति । अत्राप्युपमेयपदमुपमानपरमेव करणव्युत्पत्त्याश्रयणात् । तथा चोपमानभूतमुखपदस्यैवोक्तवार्तिकेन लोपः । इवपदस्य च गतार्थत्वादेव निवृत्तिः । स्पष्टं चेदं कैयटे एव । अत उभयोरप्युक्तवार्तिकेन लोप इति प्राचां व्याख्यानमयुक्तमेव । यद्वा मुखपदस्य मुखसदृशे लक्षणा । उभयथापीवादीनामुक्तवार्तिकेन लोप इति भावः । समपदमिति । सामान्यपदमित्यर्थः । तेन सामान्यपदेन कारिकास्थेन उपमानलोप एव वाचनिकः, इवादिनिवृत्तिस्त्वर्थादित्येव विवेको विवक्षित इति
१. 'पूर्वोक्तपक्ष' ख.