________________
अलंकारकौस्तुभः। १३९ अथ त्रिलुप्तामाह
सामान्यलुब् वृत्तौ ॥ १३ ॥ धर्मद्योतकोपमानानां त्रयाणां लोपेः समास एवेत्यर्थः । यथा_ 'अह सरसदन्तमण्डलकवोलपडिमागऊ मिअच्छीअ ।
अन्तो सिन्दूरिअसङ्खवत्तकरणिं वहइ चन्दो ।' अत्र मृगाक्षीति । इह हि मृगस्याक्षिणी इवाक्षिणी यस्या इत्यर्थे 'उपमानपूर्वपदो बहुव्रीहिरुत्तरपदलोपश्च' इति वार्तिकात्समासः । उपमानवाचकौंक्षिपदस्य लोपः । अस्य हि 'सप्तमीपूर्वपदस्योपमानपूर्वपदस्य च बहु
विव रम्यं मुखम्' इत्यादौ श्रौत्या अप्युपमानलुप्ताया उपपत्तेः । नहीदमपीष्टापत्त्यापरिहर्तुं शक्यम् , तस्या आर्थत्वनियमस्य सिद्धान्तसिद्धत्वात् । त्वयाप्यभ्युपगमाच्च । तत्रापीष्टापत्तिमभिदधानस्तु उन्मत्तप्राय एवेत्युपेक्ष्यः । किंचैवं 'पुष्पवत्कल्पं मुखम्' इत्यादौ त. द्धितेऽप्युपमानलुप्ता स्यात् । न चेष्टापत्तिः । त्वयाप्यनङ्गीकारात् । तथापि त्वया तद्धिते. ऽप्युपमानलुप्ताभ्युपगतैव चञ्चत्क इत्यादाविति चेत् । नहीदं मां प्रति आपादनं येनेष्टापादानमित्यदोषः स्यात् । किंतु त्वां प्रत्येव, त्वया च तद्धिते उपमानलुप्तानभ्युपगमा. दनिष्टापादानमेवेति । ममापि तथैवाभ्युपेयमिति चेत्, तर्हि खपक्षे लजा चेत्युभयपरित्यागात्स्पष्टमेव निग्रहोऽङ्गीकृतः । किंच पुष्पवद्रम्यं मुखमिति वाचकोपमानलुप्ता, त्वया. प्यभ्युपगमात्। न चेदं मां प्रतीष्टापादानमेव, काकतालीयमिति छप्रत्ययप्रकृतिभूते समासे त्वयाप्यभ्युपगमादिति वाच्यम् । तत्पर्यन्तानुसरणप्रयासानुपपत्तेः । किंच 'पुष्पवन्ता. विव मुखम्' इति वाक्येऽपि धर्मोपमेयोभयलुप्तोपमापत्तिः । तथा च क्यच्प्रत्यय एव तदुपगमविरोधः । किं बहुना । धर्मोपमानोपमेयार्थकलाक्षणिकपदान्युपादाय सर्वत्रैव तत्तबुप्तापत्तिरिति संक्षेपः । तदेतत्सर्वमभिद्योतयन्नाह-अलं पल्लवितेनेति । 'असौ सरसदन्तमण्डलकपोलप्रतिमागतो मृगाक्ष्याः । अन्तः सिन्दूरितशङ्खपत्रकरणिं वहति चन्द्रः ॥' [इति च्छाया ।] प्रकृतोदाहरणांशं विविच्य दर्शयति-अत्र मृगाक्षीति । यद्यपि 'सप्तम्युपमान-' इत्यादिवार्तिकशरीरं महाभाष्यादौ दृश्यते, तथापि प्रकृतोपयुक्ततया सप्तमीत्यंशमपहायैव वार्तिकं पठति-उपमानेत्यादि । उक्तवार्तिकविष
१. 'समा(दुपमेया)दन्येषां' इत्यलंकारमुक्तावल्यामधिकं दृश्यते. २. 'सप्तम्युपमान' ख. ३. 'कनेत्र' ख. ४.'अस्यार्थो हि' ख. १. 'त्वयाप्युपमा स्यात्' ख. २. 'तदाप्त्यभ्युपगमात्' क; 'तदानयनात्' ख.