________________
१३८
काव्यमाला ।
चेत्, सत्यम् । अस्मदपेक्षया गौरवं स्पष्टमेव । सादृश्यार्थकपदाभावस्य वाचकलुप्तत्वव्यवस्थापकत्वे उभयनिवेशापेक्षया लाघवस्य सत्त्वात् । आस्तां प्रागेव बहुशो दूषितं प्रासङ्गिकमेतत् ॥ प्रकृते उपमानार्थ कलाक्षणिक पदसत्त्वान्नोपमानलुप्तत्वसंभवः । अथात्रापि उपमानवाचकपदाभाव एवोपमानलोपव्यस्थापको वक्तव्य इति चेत्, गौरवादिकं तावत्स्पटास्ताम् । एवं सति क्यङ्प्रत्ययेऽपि उपमानलुप्तोपमा स्यात् । न चेष्टापत्तिः । केनाप्यनभिधानात् । चित्रमीमांसा - रसगङ्गाधरयोरपि क्यङादावुपमानलुप्तानभ्युपगमाच्च । ननु क्यस्थले कथमुपमानलोपापत्तिरिति चेत् । अवहितो भूत्वा शृणुयाः ॥ 'ओजसोप्सरसो नित्यम् -' इति तत् सूत्रस्थवार्तिकेन विशिष्यौ जायते इत्यत्र क्यङ्प्रत्ययः सर्वसिद्धः । तत्र च ओजःशब्दो लक्षणया तद्वत्परः इति वैयाकरणैः कण्ठत एव व्याख्या - तम् ॥ अस्ति च तत्र वैदिकोऽपि प्रयोगः - 'ओजायमानं अहिं जघान ' इति ॥ नन्वत्र मास्तु लक्षणा दुःसहत्वादिधर्मविवक्षया ओजस एवोपमानत्वसंभवादिति चेत्, न । धर्मान्तरानुसरणक्लेशवैयर्थ्यात् । ओजस्विन उपमानत्वे विशेषणतया उपस्थितस्य ओजस एव साधारणधर्मतायां लाघवात् । 'पौलोमी कुचकुम्भकुङ्कुमरजखाजन्यजन्मोद्धता शीतांशो रुचयः पुरंदरपुरो सीमामुपस्कुर्वते । एताभिर्लिहतीभिरन्धतमसान्युनतीभिर्दिशः क्षोणीमारणतीभिरन्तरतमं व्योमेद मोजायते ॥' इति मुरारिपये तद्वदेवोपमानताया अवश्यवाच्यत्वाच्च ॥ किंच - उपमानादेव क्यङादयो विहिताः, उपमानत्वं लक्ष्यार्थस्यापि सर्वसंमतम् । अतो लाक्षणिकादपि उपमानविहितप्रत्ययोत्पत्तौ न किंचिद्वाधकं संकोचे मानाभावात् । स्वीकृतं चात्रैव त्वयापि लाक्षणिकशब्दात् छप्रत्ययादि - कम्, तत्केन विशेषेण क्यङादयो लाक्षणिकान्न स्युः । तत्रोपमानपदं साक्षादेव श्रूयते । छप्रत्यये त्वाक्षेपादिति चेत् किं ततः । शास्त्रतात्पर्यविषयत्वस्योभयत्रापि साम्यात् । अन्यथा ततः प्रत्ययानुपपत्तेः । तदुक्तम्- 'सूत्रेष्वेव हि तत्सर्वं यद्वृत्तौ यच्च वार्तिके' इति ॥ अतएव —‘अश्वाभिधानीमादत्ते' । इत्यादौ गर्दभाभिधानी व्यावृत्तेरशाब्दभूताया अपि वेदतात्पर्यविषयत्वेन विधेयत्वपर्यवसानम् । 'अरुणयैकहायिन्या पिङ्गाक्ष्या सोमं क्रीणाति' इत्यत्र मीमांसकमते - अरुणायेत्यादीनां क्रियायां एवान्वयात् । गवारुण्ययोः परस्परावच्छेदत्वकस्य पाकत्वस्वीकारेऽपि तस्य शास्त्रीयत्वं च । अन्यथानरुणयापि गवा सोमक्रयापत्तेः। ततश्च लाक्षणिकत्वात्क्यङादिप्रत्यये उपमानलुप्तत्वापत्तिर्दुर्निवारैव ॥ एवं साधारणधर्मादीनामपि लक्ष्यत्वस्थले धर्मलोपापत्तिरपि स्यात् । तथा पुष्पवत्सदृशं मुखं इत्यत्रापि उपमानलोपापत्तिः । पुष्पवत्पदस्य हि 'एकयोक्त्या पुष्पवन्तौ' इत्युभयव्यासक्तशक्तिमत्वेन चन्द्रत्वप्रकारकत्वे सति सूर्यत्वप्रकार कशाब्दत्वं कार्यतावच्छेदकं क्लृप्तम् । तत्र चन्द्रत्वादिमात्रप्रकारकबोधत्वस्य तच्छक्तिज्ञानकार्यतानवच्छेदकत्वात्तादृशोधो लक्षणयैवेति स्वीकारात् । न चेष्टापत्तिः काव्यसममित्यादावर्थान्तरानुसरणक्लेशानुपपत्तेः । लक्ष्योपमानकस्थल एव तत्सौलभ्यात् तथैवास्त्विति चेत्, 'पुष्पवन्ता
१. 'छेदकत्वस्य' क.