________________
अलंकारकौस्तुभः ।
१३७
त्वयाप्युपगन्तव्यम् । अन्यथा इवार्थे विहितस्य तद्धितस्यापि तदवाचकत्वप्रसङ्गादिति तत्त्वम् । एवं तद्धितार्थभूताया धर्मोपमानलुप्ताया अपि नात्रोक्तिः । तद्धितोत्पत्तिदशायां काकतालपदस्य तालकृतकाकवधे लक्षणास्वीकारेण तदाश्रयकाकतालपदस्य भ्रूणमाणत्वेनोपमानलुप्तत्वाभावात् । न च लक्षणायां मानाभावः । उपमानपरत्वाभावे तदुत्तरमिवार्थे तद्धितानुपपत्तेरेव मानत्वादिति कृतं पल्लवितेन ।
भावः ॥ तद्धितप्रकृतिभूतसमासगतोपमाया आधिक्यं निराकृत्य, तद्धितार्थोपमाया अप्याधिक्यं निराकरोति - एवमिति । उपमानपरत्वेति । तालकृतकाकवत्वस्यैवोपमानतायाः सर्वसिद्धत्वात् । तथा च पञ्चमाध्याये कैयटेनोक्तम्- 'तालेन तु यः काकस्य वधः स देवदत्तस्य दस्युना वधस्योपमानमिति वधादिः काकतालीयादिशब्दवाच्यः संपद्यते । छप्रत्ययप्रकृत्यंशस्य तत्परत्वं विना तदुत्तरं तद्धितो न स्यादिति भावः । ननूक्तसमासस्य सादृश्यवाचकत्वे मानाभावः । अध्याहृतादिवपदादेव तद्बोधोपपत्तेः । न च इवार्थविषयादित्यनुवादसामर्थ्यात्तथेति वाच्यम् । तत्समासेनं सादृश्यप्रतीतावेव तस्य तात्पर्यात् तस्याश्च इवपदादेवोपपत्तौ समासस्य तच्छक्तिकल्पने गौरवात् । यदपि 'समासाच्च' इति सूत्रे यदि समासोऽपि इवार्थे, छप्रत्ययोऽपि तत्रैव, तर्हि समासेनोतत्वात् । छप्रत्ययो न प्राप्नोति इति शङ्कापरं भाष्यम् । तदपि तत्समासात्सादृश्यप्रतीतिरित्येतावन्मात्रतात्पर्यकम् । अत एव तत्र कैयटेन वचनसामर्थ्यात्स्यादिति चेत् शस्त्रीश्यामादिभ्योऽतिप्रसङ्ग इति व्याख्यातम् । न हि शस्त्रीश्यामेत्यादावपि समासस्यैव सादृश्यवाचकत्वमिष्यते । तत्र वाचकलुप्तायाः सर्वैरप्युदाहृतत्वादिति चेत्सत्यम् । तथापि नात्र वाचकलोपोऽपीत्यपिशब्देनोपमानलोपाभावस्य विवक्षितत्वात् । तथा हिकाकतालशब्दयोस्तदागमनपतनयोर्लक्षणा सर्वसंमता । तयोर्देवदत्तागमनदस्यूपनिपातनिष्ठोपमेयता निरूपितोपमानत्वं च सर्वग्रन्थसंमतम् । पञ्चमाध्याये कैयटेनाप्युक्तम्'वृत्तिविषये काकतालशब्दौ काकतालसमवेतक्रियावाचिनौ, तत्र काकागमनं देवदत्तागमनस्योपमानं तालपतनं दस्यूप निपातस्य' इति । एवं स्थिते लाक्षणिकोपमानवाचकपदयोः श्रूयमाणत्वात्कथमुपमानलोपः । न च लक्षणास्वीकारेऽपि तत्र शक्त्यभावादुपमानलोपःइति वाच्यम्। उपमानार्थकशब्दश्रवणमात्रस्य विवक्षितत्वेन वाचकत्वपर्यन्तस्य वैयर्थ्यात्प्रमाणाभावाच्च । अतएव वाचकलुप्तत्वमपि सादृश्यार्थकपदमात्राभावे सत्येव पूर्वं व्यवस्थापितम्।विवक्षितं च सर्वेषां ग्रन्थकाराणां तथैव । न हि सादृश्यलाक्षणिक पदयोगेऽपि लुप्तत्वस्वीकारे आर्थी पूर्णोपमा कुत्रचिद्विषयमर्हति । आर्थोपमायां सादृश्यवाचकपदाभाव नियमात् ॥ नन्वेतदर्थमेव सादृश्यतद्विशिष्टान्यतरवाचकपदाभावे वाचकलुप्तत्वमिति रसगङ्गाधरादौ व्यवह्रियते । तत्र सादृश्यवाचकपदाभावेऽपि सादृश्यविशिष्टवाचकपदसत्त्वेन लुप्तत्वानापत्तिरिति
१८