________________
काव्यमाला। पनिपातस्य, तयोरिवशब्दस्य च काकतालमिति समासे लोपः स्पष्टः । ततोऽपि काकतालमिव काकतालीयमिति ‘समासाच्च तद्विषयात्' इति छप्रत्ययः । तालपतनेन यथा काकवधस्तथा चौरेण देवदत्तस्येति तद्धितार्थः । तथा च 'काकतालीयो देवदत्तस्य वधः' इत्यत्र तद्धिते उपमानस्य काकवधस्यातर्कितोपनतत्वस्य समानधर्मस्य च लोपो वक्तव्य एवेति ॥ ___ अत्रोच्यते-सत्यमेव काकतालीयेत्यत्र छप्रत्ययप्रकृतिभूते समासे वाचकोपमानलोपोऽस्ति । परंतु न प्रकृते तदनुक्त्या न्यूनत्वप्रसङ्गः । तत्समासस्य खातत्र्येण प्रयोगाभावात् । तथा हि-छप्रत्ययविधानबलेन तत्र समाससिध्या यत्र छप्रत्ययो विषयस्तत्रैव समासो न तु छप्रत्ययविनिर्मुक्तेऽपि । विभागश्चात्र खातत्र्येण प्रयोगयोग्यानामेव कृत इति । ___ वस्तुतस्तु—नात्र वाचकलोपोऽपि । समासस्यैव वाचकस्य विद्यमानत्वात् । इवार्थविषयात्समासादिवार्थे छप्रत्ययविधानबलेनेवार्थ एव समासस्य वाच्यत्वात् । तथा च कैयटेन व्याख्यातम्-'काकस्यागमनमिव चैत्रस्यागमनम्, तालस्य पतनमिव दस्योरुपनिपातः' इत्येक इवार्थः । तत्रैव समासः । तेन ‘पतता तालेन यथा काकस्य वधस्तथा दस्युना चैत्रस्य वधः' इति द्वितीय इवार्थः । तत्र च छप्रत्ययः-इति ॥ अवश्यं चेदं ति । 'यच्चौराणामस्य च समागमो यच्च तैर्वधोऽस्य कृतः । उपनतमेतदकस्मादासीद्वत काकतालीयम् ॥' इति चित्रमीमांसोदाहरणाभिप्रायकम् । तयोरिति । काकागमन.तालपतनयोरिस्यर्थः । तत्रैव वाचकलोपमपि दर्शयति-इवशब्दस्य चेति । अतकितेति । 'काकतालीयो देवदत्तस्य वधः' इति वाक्याभिप्रायेण उक्तश्लोके अकस्मा. दिति धर्मस्यापि निर्देशात् । तृतीयचरणस्यान्यथा निर्माणे तत्रापि धर्मलोपो द्रष्टव्यः ॥ ननु क्यङादीनामपि स्वातन्त्र्येण प्रयोगायोग्यत्वात्तद्विभागोऽप्येवमसंमतः स्यादित्यपरितोषादाह-वस्तुतस्त्विति । कैयटेनेति । द्वितीयाध्याये 'प्राक्कडारात्समासः' (आकडारादेका संज्ञा) इति सूत्र इत्यर्थः । पञ्चमाध्याये 'इवाथै समासः' इति कैयटेन विशिष्यानभिधानात्स्थलान्तरानुसरणंम् । तथा च 'इवार्थे समासः' इति कैयटव्याख्यानात्सिद्धम् । समासस्यैव सादृश्यवाचकत्वं तदर्थ विहितवतिप्रत्ययादिवदिति भावः । किंच त्वयापि तदर्थविहितस्य तद्वाचकत्वमस्वीकृत मित्याह-अवश्यं चेति । तथा च छप्रत्ययस्य इवार्थविहितस्य सादृश्यवाचकत्वमभ्युपगम्य तत्प्रकृतिभूतस्य इवार्थविहित. स्यैव समासस्य सादृश्यवाचकत्वं नास्तीत्यभिधाने तुरगारूढस्यैव तुरगविस्मरणमिति