________________
अलंकारकौस्तुभः। वाक्ये यथा... 'जं तुज्झ सई जाआ असईओ सुहअ जं अम्हे । - ता किं फुट्टउ वीअं तुज्झ समाणो जुआ णत्थि ॥'
त्वनिष्ठसादृश्यप्रतियोगी युवा नास्तीत्यर्थः । यद्वा 'मालइकुसुमेण समं'. इति पूर्वश्लोके पाठे वाक्यगा बोध्या ।
अत्र दीक्षिताः--वाचकोपमानलुप्ता स्वरूपत एवानुदाहृता समासेऽस्ति । तथा धर्मोपमानलुप्ता वृत्तिवाक्ययोरेवोक्ता तद्धितेऽपि । तथा हिकाकागमनमिव तालपतनमिव काकतालम् । 'समासाच्च तद्विषयात्' इति समासानुवादेन प्रत्ययविधानाज्ज्ञापकात्समासः । 'इवार्थविषयात्समासाच्छप्रत्ययः स्यात्' इति हि तदर्थः । न चेवार्थे समासं विना तत्संभवतीति तस्मादेव तात्पर्यग्राहकात्समासः । तत्र काकशब्दस्तदागमने,तालशब्दस्तत्पतने वर्तते । तत्र काकागमनं देवदत्तगमनस्योपमानम् , तालपतनं दस्यूव सती जाया असत्यः सुभग यद्वयम्। तत्कि स्फुटयतु बीजं तव समानो युवा नास्ति ॥' [इति च्छाया । त्वत्सदृशयुवान्तराभावादेव त्वज्जायायाः पुरुषान्तरसंगमाभावः, अस्माकं च खपतीनपहाय त्वत्संबन्ध इति किमुभयत्रापि हेत्वन्तरगवेषणयेत्यर्थः ॥ नन्वत्र त्वत्समानो युवा नास्तीत्यस्य युवाभावस्य बाधितत्वेन तत्सादृश्यरूपविशेषणाभावपर्यवसायित्वेन त्वत्सदृशाभाव एव विवक्षित इति कथमुपमा, अनन्वयस्यैवोचितत्वादित्यस्वरसादाह-यद्वेति । इदं च सर्व मालत्यादिनिष्ठसादृश्यप्रतियोगिनमित्यर्थखीकारे । प्रागुक्तनिष्कर्षरीत्या मालत्यादिप्रतियोगिकसादृश्याश्रयमित्येव बोधाभ्युपगमे तु गोवर्धनाचार्यपद्यमुदाहार्यम्-'वासरगमनमनूरोरपि वियदवनिश्च वामनैकपदम् । जलधिरपि पोतलङ्घयः सतां मनः केन तुलयामः ॥' अत्र केनेति सामान्यनिर्देशादुपमानलोपः । तुलयाम इत्युक्त्या तस्य ज्ञानाभाव एव तात्पर्य नत्वसत्त्वेऽपि । तत्सत्त्वेऽपि ज्ञानाभावेन तत्प्रतियोगिकसादृश्याश्रयत्वेन प्रकृतनिरूपणानुपपत्तिसिद्धौ असत्त्वे तात्पर्यकल्पेन गौरवात् । सतां मनः किंसमं ब्रूम इति च वाक्यगत्वं बोध्यम् ॥ स्वरूपत एवेति । एतद्भेदस्यैव प्राचीनैरपरिगणनात् । तद्धितेऽपीति । तथा चात्र धर्मिणः परिगणितत्वेऽपि विभागे न्यूनत्वमिति भावः । समासं विना उक्तसूत्रार्थानुपपत्तावेव तदन्यथानुपपत्तिबलात्समास: स्यानत्वन्यथेति । समासव्यतिरेकप्रयुक्तां सूत्रार्थानुपपत्तिं प्रदर्शयिष्यन्सूत्रार्थ व्याचष्टे-इवार्थेति । अनुपपत्त्यंशं विभज्य दर्शयति-न च इवार्थ इति । इदं च प्रसिद्धिवशादुक्तम् । सुप्सुपेत्यनेनापि समाससिद्धेः कैयटेनाभिहितत्वात् । वर्तत इति । खसमवेतयथोक्त क्रियायां लक्षणयेति भावः ॥ देवदत्ते