SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १३४ काव्यमाला। ___ अत्र हि चञ्चेव चञ्चेति 'इवे प्रतिकृतौ' इति कन् । 'लुप् मनुष्ये' इति तस्य लोपः । लिङ्गं तु प्रकृतिवदेव । एवं वधिकेव वधिका इत्यादावपि । अत्र हि साधारणधर्मस्याचेतनत्वादेर्वाचकस्य च लोपः स्पष्ट एवेत्याहुः ॥ अन्ये तु-चन्द्रमौलिभजनराहित्यरूपधर्मप्रयोगान्न तल्लोपः॥ न चतस्य मर्त्यविशेषणत्वेनोपादानात्तस्योपमानभूतचञ्चायामनन्वयान्न साधारण्यमिति वाच्यम् । _ 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति । ___ तं शंभुमभजन्मर्त्यश्वञ्चा खात्महिताकृतेः ॥ इत्यत्रापि धर्मलुप्तत्वप्रसङ्गे तत्र धर्मश्रवणमिति खोक्तिविरोधापत्तेः । उभयत्र शाब्दान्वयबोधं विनापि वस्तुत उभयवृत्तित्वज्ञानमेव साधारण्ये नियामकमिति त्वत्रापि तुल्यम् । उपमेयतावच्छेदकत्वेनैवात्र चन्द्रमौलिभजनराहित्यं विवक्षितम् । साधारणश्च धर्मः स्वात्महिताकरणमिति तु शपथमात्रम् । चन्द्र इव मुखं रमणीयमित्यत्रापि धर्मान्तरप्रयुक्तसादृश्यं विवक्षितमिति शपथस्यापि संभवाद्धर्मलोपापत्तेरित्याहुः ॥ ___धर्मोपमानलुप्ता वृत्तौ वाक्ये धर्मोपमानलुप्ता समासे वाक्ये चेत्यर्थः । तद्धिते तु नेयं संभवति । उपमानपदोत्तरमेव तद्विधानात् । अत एव न श्रौत्यपि इवादेरप्रयोगे । उपमानपदाप्रयोगे इवादेरप्रयोगात् । . तत्र समासे यथा'दुण्ढोलन्तो मरिहिसि कण्टअकलिआइ केअइवणाई। मालइकुसुमसरिच्छं भमर भमन्तो ण पाविहिसि ॥' अत्र मालतीकुसुमसदृशमित्यस्य मालतीकुसुमनिष्ठसादृश्यप्रतियोगिनमित्यर्थः । यद्यपि.............. ..................... तथापि.... ............................................. ॥ श्रीः । 'अन्वेषयन्मरिष्यसि कण्टककलितानि केतकीवनानि । मालतीकुसुमसदृशं भ्रमर भ्रमनपि न प्राप्स्यसि ॥' [इति च्छाया।] अत्र कुसुमस्यैवोपमानत्वात्कथं तल्लोप इत्याशङ्कते-यद्यपीति । पूर्वोक्तरीत्या समाधत्ते-तथापीति । 'यत्त . . .
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy