________________
अलंकारकौस्तुगः ।
१३३
तत्र विपि यथा मम
'बाणन्ति वारिधाराः पवनाः पवयन्ति वह्नयति विद्युत् ।।
घनति घना धनमाला पथिकानां कामनुन्नानाम् ॥' 'सर्वप्रातिकेभ्य आचारे विप् वा वक्तव्यः' इति भाष्यकारवचनात् बाणा इवाचरन्ति इत्याद्यर्थे क्विपू । तस्याचारार्थकतायामपि तस्य सर्वलोपित्वेन श्रूयमाणत्वाद्धर्मलोपव्यवहारः इवाद्यप्रयोगस्तु स्पष्ट एव ।
समासे यथा'अयं क इत्यन्यनिवारकाणां गिरा विभुरि विभुज्य कण्ठम् । दृशं दधौ विस्मयनिस्तरङ्गां स लङ्घितायामपि राजसिंहः ॥'
अत्र 'राजा सिंह इव' इत्युपमितसमासः । न चात्र 'स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः। सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः॥' इति सिंहपदं श्रेष्ठपरमिति । कण्ठं वक्रीकृत्य पश्चादवलोकनोपपत्तये उपमितसमासस्यैवात्र युक्तत्वात् ॥ न चैवं सामान्यधर्मप्रयोगात्तत्समासानुपपत्तिरिति वाच्यम् । अत्रोपमानिमित्तसामान्यधर्मप्रयोग एव समासनिषेधात् । शौर्यादिद्वारा तत्र सिंहोपमायां सिद्धायां पश्चादेव तत्स्वभावस्य तत्र वर्णनात् ।
क्यचि समाञ्जकलुपू ।। उपमेयद्योतकयोर्लोपे उपमा क्यच्प्रत्यय एव भवतीत्यर्थः । यथा'मा संभावय मां गिरा मधुरया कुर्या न चित्तोत्सवं
वातान्दोलविलोलपङ्कजदलद्रोहस्पृशा वा दृशा । • आयाते मयि यच्चकार भवती कृत्यौचिती संभ्रमं
तेनैवाद्य ममेन्दुसुन्दरमुखि स्वात्मा महेन्द्रीयति ॥' । अत्र ‘महेन्द्रमिवात्मानमाचरति' इत्यर्थे क्यच् ॥ यद्यप्यत्रात्मैवोपमेयः, तथापि कर्तृकर्मभूतयोरात्मनोरुपाधिभेदेन विवक्षया कर्मीभूतस्यात्मनोऽश्रूयमाणत्वादुपमेयलोपव्यवहारः । अत्र दीक्षिताः-धर्मवाचकलुप्ता तद्धितेऽपि संभवति । यथा. 'नृणां यं सेवमानानां संसारोऽप्यपवर्गति ।
तं जगत्यभजन्मर्त्यश्चञ्चा चन्द्रकलाधरम् ॥'