________________
१३२
काव्यमाला |
अन्यथा तद्धकपदार्थेषु खण्डशक्तौ प्रमाणशब्दस्य शक्त्यैव बोधसंभवे तद्विरोधात् ॥ अत्रापि लक्षणैवास्तु को दोष इति चेत् । श्रौतीत्वानुपपत्तिरेवेति दिक् ।
केर्तृणमुलि यथा मम
―――
'त्वद्विप्रयोगदहनज्वरदह्यमाने
ये ये गुणा हृदि वसन्ति पुरो मृगाक्ष्याः । ते वह्निमध्यविलसद्विसतन्तुनाशं
नष्टास्त्रपाधृतिविवेकमुखाः समस्ताः ॥'
अत्र प्रागुक्तसूत्रे चकारेण कर्तुरनुकर्षात्कर्तरि णमुल् | एवं त्रयोदशविधैकलुप्ता व्याख्याता ।
अथ द्विता व्याख्यायतेधर्मद्योतक लुकि समासयोः
इति । ही वाक्ये संभवति । 'मुखं चन्द्र:' इत्यतः सादृश्याप्रतीतेः । नापि तद्धितगा । वत्यादेरेव धर्मवाचकत्वेन तल्लोपाभावात् ।
तत्र च कैश्चित्खण्डशक्तिस्वीकारेण शब्दस्य श्रुतिपरत्वं शक्त्यैव । विशिष्टशक्तिपक्षे विशेषणविशेष्यभावे विनिगमकाभावेन गौरवात् । अतो न लक्षणेत्युक्तम् । तत्र च दूषणं, व्यासक्तशक्तेस्तथाप्यनपायेन शङ्कांशमात्रबोधे लक्षणैव स्यात् इति न्यायमालायां द्वितीयसूत्रव्याख्यानावसरे जयरामभट्टाचार्यैरेव लिखितमिति । अवश्यं व्यासक्तशक्तिमतां पदानामेकमात्रार्थबोधकत्वे लक्षणेति अत्रापि साम्यादेवेति फलितार्थः ॥ अत्रापीति । इदं च त्वयाप्यवश्यमभ्युपेयं इवपदस्यापि व्यासक्तशक्तिकत्वे भेदविनिर्मुक्तान्यार्थबोधे लक्षणाध्रौव्यादिति भावः । श्रौतीत्वेति । ननु सादृश्ये लक्षणायां आर्थी उपमेति मते एतद्दोषसंभवेऽपि यत्पदार्थविशेषणस्योपमानत्वनियमस्तत्रैव श्रौतीति व्यवस्थापयतां जयरामभट्टाचार्याणां मतेन कथमेतदापादनं सादृश्यलक्षणायामपि णमुलर्थ सादृश्य विशेषणतापन्नस्य कर्मादिकारकस्य उपमानत्वनियमस्य क्षतिविरहादिति चेत्, सत्यम्। सादृश्ये लक्षणायामेव आर्थत्वमिति व्यवस्थावादिभिरप्येतत्पक्षमालम्ब्य णमुल्प्रत्ययस्य भेदादिशक्ति स्वीकारसंभवात् । तान्प्रत्येवार्थत्वापादनात् । न च तेषामत्रेष्टापत्तिः । उपजीव्यविरोधात् । न चांशान्तर एव तदुपजीवनमिति वाच्यम् । तदा प्रत्ययार्थत्वं कल्पयित्वेत्यादिपूर्वोक्तदूषण एव उभयसाधारण्येन तात्पर्यात् । तदेवाह - दिगिति । इत्येकलुप्तोपमाविवरणम् ॥
१. 'कर्म' ख.