________________
अलंकारकौस्तुभः । 'लङ्कापुरादतितरां कुपितः फणीव
निर्गत्य जातु पृतनापतिभिः परीतः । क्रुद्धं रणे सपदि दाशरथिं दशास्यः
संरब्धदाशरथिदर्शमहो ददर्श ॥ इत्यनन्वयालंकारे भेदाप्रतीत्या न भेदेऽपि शक्तौ प्रमाणमस्ति ॥ न च तत्र भेदस्यानन्वय एवेति वाच्यम् । प्रत्ययार्थत्वं कल्पयित्वा तदनन्वयकल्पनायामनौचित्यात् । अन्यथातीतकृतिके चैत्रे 'चैत्रः पचति' इति प्रयोगापत्तेः । वर्तमानत्वस्य बाधेन कृतावनन्वयात्पाकानुकूलकृतिमानिति बोधसंभवात् । शक्यतापर्याप्यधिकरणतावच्छेदकस्यैव शक्यत्वाच्च । अत एव 'श्रोतव्यः श्रुतिवाक्येभ्यः' इत्यत्र श्रुतिपदस्य प्रमाणशब्दे लक्षणा । प्रयोगो नास्त्येवेत्याशङ्कां परिहरन्नाह-लङ्केति । रसगङ्गाधरेऽनन्वयोदाहरणमेतत् । 'नैर्ऋतो यातुरक्षसी' इत्यमरः । चवर्गीयजकारादिरपि जातुशब्दो राक्षसार्थ इति तव्याख्यातारः ॥ ननु तत्र भेदस्यानन्वय एव, इवपदाध्याहारवादिना त्वयापि इवार्थभेदस्य तत्रान्वयबोधवारणाय तथैव वाच्यत्वादित्याशङ्कते-न च तत्रेति । कल्पयित्वेति। तथा च इवपदस्य भेदशक्तिरुभयसिद्धत्वात्तत्रानुपपत्त्या भेदान्वयखीकारेऽपि णमुलप्रत्ययस्य भेदशक्तेः प्रमाणतयासिद्धत्वेन तच्छक्ति कल्पयित्वा तदनुपपत्त्यानन्वयकल्पनमयुक्तमेवेत्यर्थः । किंच युगपदुभयार्थबोधकपदानामेकार्थानन्वयेऽर्थान्तरस्याप्यनन्वयव्यु. त्पत्तिविरोधादपि नैवमित्याह-अन्यथेति । एकार्थान्वयाभावेऽप्यन्यार्थान्वयस्वीकारे इत्यर्थः ॥ ननु यत्र तदर्थान्वयायोग्यत्वे तत्पदस्यासाधुत्वम्, तत्रैव तदर्थान्वयव्यतिरेकेण नार्थान्तरमात्रे तत्पदप्रयोगः । यथा कृतेरतीतत्वदशायां पचतीति लटो साधुत्वात् 'वर्तमाने लट्' इति वचनात् । अत्र तु भेदांशान्वयेऽपि न तस्य साधुत्वप्रसक्तिभेदातिरिकार्यान्वयबोधः स्यादेव । अन्यथा इवपदाध्याहारवादिनस्तवापि कथं भेदानन्वयेऽपि तदन्यार्थान्वय इत्यत आह-शक्यतेति। तत्पदशक्तिपर्याप्त्यधिकरणेत्यत्र तात्पर्यम् । तथा च भेदानन्वये तदन्यार्थमात्रस्य शक्तिपर्याप्त्यनधिकरणत्वात् तद्बोधार्थ लक्षणा स्यात्। अत एव पुष्पवन्तावित्यादौ 'एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ' इति चन्द्रसूर्ययोासक्तशक्तिखीकारात् । केवलं चन्द्रत्वादिप्रकारकबोधो लक्षणयैवेति संप्रदायः ॥ ग्रन्थान्तरसंवादमप्याह-अत एवेति । उभयत्र व्यासक्तायाः शक्तरेकधर्ममात्रप्रकार. कशाब्दजनकत्वासंभवादेवेत्यर्थः । प्रमाणशब्द इति । शब्दतदुपजीवीप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्यवाक्यार्थज्ञानजन्यप्रमाणशब्दत्वस्य श्रुतिलक्षणत्वात्तत्र स्मृतिपुराणादिसाधारणाय प्रमाणशब्दमात्र एव श्रुतिपदस्यात्र तात्पर्यम् । १. 'इत्यादावनन्वया' क-ख. २. 'भेदस्याप्रतीत्या' ख.