________________
१३०
काव्यमाला। भूतस्यैव धातोराख्यातान्तस्यानुप्रयोगोऽनुशासनसामर्थ्यात् । पूर्ववदेवात्रेवादेरध्याहारः॥ ___ यत्तु-भेदः सजातीयश्च णमुलोऽर्थः । भेदः सकर्मकक्रियायोगे कर्मणि अन्यत्र सजातीयक्रिया कर्तर्येवान्वेति ।। तथा च
'मृधे निदाघधर्माशुदर्श पश्यन्ति तं परे ।' इत्यस्य 'निदाघधर्माशुभिन्नं तत्कर्मकं यन्निदाघधर्माशुदर्शनसजातीयदर्शनं तद्वन्तः परे' इत्यर्थः ।
'स पुनः पार्थसंचारं संचरत्यवनीपतिः ।' इत्यत्र तु पार्थभिन्नत्वे सति पार्थसंचारसजातीयसंचारवानित्यर्थः । अत एव 'धर्माशुदर्श घाशुं पश्यति' 'पार्थसंचारं पार्थः संचरति' इत्यादिर्न प्रयोगः । अतः पूर्णोपमैवेयमिति ॥ तन्न । भेदादौ णमुलशक्तिबोधकानुशासनाभावात् ॥ किं च । अन्वयितावच्छेदकावच्छिन्नप्रतियोगितावच्छेदकत्वसंबन्धेन प्रकृत्यर्थस्य भेदान्वयो न नियतः । देशकालादिकृतभेदविवक्षया तथाप्रयोगस्यापीष्टत्वात् । च' इति सूत्रं विवक्षितम् । उपमानादिति तूपमानोपपदाद्धातोर्णमुलप्रत्ययः प्रतीयते । यद्वा उपमानं अतति प्राप्नोति स्वप्रकृतिभूतधातुपूर्ववर्तित्वसंबन्धेनेति । 'अत'धातोः क्किप्प्रत्यये प्रथमान्त एव णमुलो विशेषणम् । यद्वा उपमानशब्दो भावव्युत्पत्त्या साहश्यपरः । अन्यत्पूर्ववत् । ननु 'तीक्ष्णातिदर्श पश्यति' इत्यत्र दृशेर्वारद्वयं प्रयोगः पुनरुक्तो व्यर्थश्चेत्यत आह-तत्प्रकृतीति।यस्माद्धातोर्णमुल् प्रयुज्यते तस्येत्यर्थः। अनु. शासनेति-यस्माद्धातोर्णमुल् विहितः स एवानुप्रयोक्तव्य इत्यर्थकेन 'कषादिषु यथाविध्यनुप्रयोगः' इति सूत्रेणेत्यर्थः ॥ णमुलो भेदशक्तिकल्पनेऽपि निदाघधर्माशुं दर्श निदाघधर्माशुं पश्यतीति प्रयोगो दुर्वार एव उभयव्यासज्यवृत्तिधर्माद्यवच्छिन्नप्रतियोगिताकभेदस्य खस्मिन्नपि सत्वात् इत्यभिप्रायेणाह-किं चेति । ननु प्रकृत्यर्थस्य प्रत्ययार्थे भेदे अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वसंबन्धेनान्वयाभ्युपगमात् कथमुक्तप्रयोगापत्तिः । व्यासज्यवृत्त्यादिधर्मस्यान्वयितानवच्छेदकत्वात् । तदवच्छिन्नप्रतियोगितायाः संसर्गत्वासंभवात् । निदाघधर्माशुत्वादिरूपतादृशधर्मावच्छिन्नप्रतियोगिताकभेदस्य निदाघधर्माशुप्रभृतावसत्त्वादित्याशङ्कयाह-अन्वयितेति । तथा च णमुलर्थभेदे प्रकृत्यर्थस्योक्तप्रतियोगितयान्वयनियमाभ्युपगमे यत्रैकस्यैवोपमानोपमेयत्वं तत्रान्वया. नुपपत्तिः उक्तसंसर्गेण प्रकृत्यर्थभेदान्वयस्य तत्र बाधितत्वात् ॥ ननु णमुल्स्थले तादृश