________________
अलंकारकौस्तुभः ।
१२९ पः तथाचारादिमात्रवाचकत्वाभावात्तल्लोपः' इत्यस्यापि सुवचत्वादिति ध्येयम् ।
उपमानोपमेयनिष्ठसदृशधर्मस्योपमाप्रयोजकत्वात्तत्प्रयोज्यस्योपमानोपमेययोः संबन्धस्य साम्यस्य ततोऽन्यत्वात्तदवाचकत्वं क्यङादीनामिति चक्रवर्तिनः । अत्रापि साधर्म्यातिरिक्तः साम्यरूपः संबन्धोऽन्वेषणीय इति न्यायपञ्चाननादयः । उभयनिष्ठसमानधर्मबुद्धिग्राह्यसादृश्यं पदार्थान्तरमित्यभिप्रायेण चक्रवर्तिनामुक्तिरिति तत्त्वम् ।
कर्मार्थकणमुलि यथा मम—
'सांवर्तिकतीक्ष्णद्युतिदर्श पश्यति सुधाकरं बाला । विरहेण निधिनिधायं निदधाति स्वनगतं नखाङ्कं ते ॥ अत्रोभयत्रापि ‘उपमानात्कर्मणि च' इति सूत्रेण णमुल् । णमुल्प्रकृति
तदादिपदेषु बुद्धिस्थत्वादिवत् नारीयत इत्यादौ क्यङाचारत्वादिना धर्मस्य यथोक्तसमभिव्याहारबलादुक्तरीत्या लाभ इति न धर्मलोपापत्तिः । यथा ह्युपमानादित्युपमानत्वेन रूपेण नानाविधानां संग्रहः । तथा आचारत्वेन रूपेण तत्तद्धर्माणामपि । एतावांस्तु विशेष :- : - यत्र धर्मः प्रसिद्धस्तत्र तदुपादानमनावश्यकम्, यथा हंसायते नायिकेति । क्क चित्स्पष्टार्थं तत्प्रयोगोऽपि यथा - 'हंसायते चारुगतेन कान्ता' इत्यादौ । यत्र तु न तथा प्रसिद्धिस्तत्र तदुपादानमावश्यकम् । यथा - 'त्रिविष्टपं तत्खलु भारतायते' इत्यादौ सुपर्वभिः शोभितमित्यादेः । न चैतादृशानुभवे मानाभावः, आचारत्वेनैव तदुपस्थितेरिति वाच्यम्, तावन्मात्रस्य सादृश्यानिर्वाहकत्वमिति तदुक्तरीत्या सूत्राद्यसंगत्यापत्तेः । तदाशयेनैव प्राचीनैरपि क्यङादीनां धर्मवाचकत्वाङ्गीकारात् । अत एव तत्र भाष्यका - रैरपि कुटीयति प्रासादे, प्रासादीयति कुट्याम् इति धर्मार्थकशब्दान्तरहीन मेवोदाहृतम् । एवं ‘ओजायमानं यो अहिं जघान' इति भाष्योदाहृतश्रुतावपि तथैव प्रयोगः । ओजः पदं लक्षणया तद्वत्परम्। ‘अहिर्वृत्रासुरे सर्पे' इत्यभिधानम् । तदेवमुपन्यस्तनानाप्रमाणानुगृहीतानुभवबलात्स्वीकुरु, वा आचारमात्रस्योपमा निर्वाहकत्वं, प्रतिजानीहि वा क्यङादिभ्यो विशेषप्रकारकं बोधमिति । सर्वथा क्यङादयो धर्मवाचका इति सिद्धमित्यलमति निर्बन्धेन । प्रकृतमनुसरामः ॥ क्यङादीनां सादृश्यबोधकत्वनिरासाय मतान्तरमाह - उ. पमानेति । एतन्मते जयरामभट्टाचार्योक्तं दूषणमाह- अत्रापीति । अन्वेषणीय इति । समानधर्मस्यैव नैयायिकमते सादृश्य पदार्थत्वादिति भावः । मीसांसकमतमवलम्ब्य पूर्वमतं योजयति – उभयनिष्ठेति ॥ उपमानादिति । यद्यपि 'उपमाने कर्मणि च' इत्येव सूत्रखरूपं कर्मणि । कर्तरि चोपमाने उपपदे धातोर्णमुल भवतीति सूत्रार्थः । तथापि कर्मणि चेत्यंश एवात्र सूत्रखरूपकथनपरः तेन चैकदेशद्वारा 'उपमाने कर्मणि
१७