________________
१२८
काव्यमाला |
प्राचीनमतानुसारित्वदशायां तत्र तथा व्याख्यातत्वेन तदानीं यथोक्तस्यानिष्टापादनपर्यवसानसंभवेन दोषत्वेनोद्भावितुमर्हत्वात् । अविशेष्यते स तु परमार्थतोऽत्र कथं वाचकमात्रलोप उक्तरीत्या धर्मलोपस्यापि सत्वादिति । तदेतच्चण्डीदासेनाप्युद्भावितमेव । तथा चाह - वस्तुतस्तु 'सुतीयति' इत्यादौ स्नेहनिर्भरत्वादेर्गम्यमानतया धर्मलोपोदाहरणान्यमूनि, एवंविधविचारविरहदशायामपि चोभयलोपोदाहृतियोग्यानीति ॥ क्यङादीनामेव औपम्यप्रतिपादकत्वमिति व्यवस्थाप्य तदनन्तरमयं ग्रन्थः । तथा च वाचकस्य सत्वाद्धर्मस्य चानुपादानाद्धर्ममात्र लोपोदाहरणत्वमेव युक्तम् । यदापि क्यङादीनामौपम्यार्थकत्वपर्यन्तं न विभाव्यते, तदापि धर्मस्याप्युपमानिर्वाहकस्यानुपादानादुभयलोपोदाहरणम् । सर्वथापि न वाचकमात्रलुप्तत्वमिति तस्यार्थः । तत्कथं नात्र धर्मलोपोऽपीति ॥ तत्रायं प्राचामभिप्रायः । धर्मत्वव्याप्यरूपेण धर्मबोधकपदोपादानस्थले न धर्मलोपो वक्तुं युक्तः । इवादिपदैस्तु धर्मत्वरूपेणैव तद्बोध इति 'चन्द्र इव मुखम् ' इत्यादौ धर्मलुप्तमध्याहृतम् । व्याप्यत्वं च तदनतिरिक्तत्वमात्रं न तु न्यूनवृत्तित्वम्, वस्तुत्वादेः केवलान्वयिधर्मस्योपादाने तस्य धर्मत्वन्यूनवृत्तित्वानुपपत्त्या धर्मलोपापत्तेः । न चैवं 'मुखरूपमिदं वस्तु' 'घट इव पटो द्रव्यम्' इत्यादेरपि पूर्णोपमात्वं स्यात् वस्तुत्वद्रव्यत्वादिरूपेण धर्मस्योपादान सत्वादिति वाच्यम् । इष्टापत्तेः । तथा हि किमत्र उपमात्वमापाद्यते, उत पूर्णत्वम् आहोस्विच्चमत्कारः । नाद्यो द्रष्टत्वात्, नान्त्यः आपादकाभावात् । पूर्णत्वस्य उपमात्वस्य वा चमत्कारप्रायोजकत्वविरहात् । किंतु विषयविशेषस्यैव तथात्वात् ॥ यत्तु 'त्रिविष्टपं तत्खलु भारतायते' इत्यादौ सुप्रसिद्धत्वादिरूपाचा - रोपस्थित्या उपमानिष्पत्तिप्रसङ्ग इति ॥ तदप्यसत् । तत्राप्युपमा निष्पत्तौ बाधकाभावात् । परंतु सुपर्वत्वादिधर्मप्रयुक्तसादृश्यप्रतीतावेव चमत्कारोल्लासो न तु प्रसिद्धत्वादिप्रयुक्ततद्बुद्विमात्रात् । तत्रोपमाया एव निष्पत्तौ 'उपमानादाचारे' इत्यादिसूत्राणाम् उभयस्य च विरोधापत्तेः । न हि क्यङा दिस्थले धर्मलोपस्वीकारेणापि नात्रोपमानिष्पत्तिरिति वक्तुं श क्यम् । धर्मलुप्तोपमोदाहरणत्वं क्यजादीनामिति तेनापि स्वीकृतत्वात् । धर्मलोपोदाहरणानीति चण्डीदासप्रन्थस्य द्विलुप्तान्तर्भावस्य न्याय्यत्वादिति च रसगङ्गाधरप्रन्थस्य प्रागेवो - पन्यासात् । न हि व्यापकधर्मानवच्छिन्नस्य तद्व्याप्यधर्मावच्छिन्नत्वं वक्तुमर्हति । पृथिवीत्वाद्यनवच्छिन्नस्य जलादेरपि पृथिवीविशेषमध्ये परिगणनस्यानुक्तिसहत्वात् । न च नारीयत इत्यादावेव तैरुपमा निष्पत्तिरभ्युपगता, न तु भारतायते इत्यादौ इति वाच्यम् । विशिष्य धर्मानुपादानस्योभयत्राप्यविशेषणवैषम्यानुपपत्तेः । विरोधस्यान्तरावगमोत्तरमपि तदनुदयप्रसङ्गात् । तस्मान्नारीयत इत्यादावाचारस्यैव धर्मत्वाद्विषयविशेषमहिना चमत्कारोल्लासाच्च न धर्मलुप्तत्वम् । इदं च सूत्रकर्तुर्भगवतः पाणिनेरप्यभिमतम् । न ह्याचाररूपस्य धर्मस्य स्रादृश्यानुपपादकत्वे ‘उपमानादाचारे' इति सूत्राणामुक्ति संभवः । वस्तुतस्तु तत्तदुपमानोपमेयसमभिव्याहारवशात्क्यङादिभ्यो विशेष्यप्रकारेणैव आचारोपस्थितिर्भवति । आचारे इति तु नानाविधशक्यतावच्छेदकानुगममात्रम्, न तु तेन रूपेण शाब्दबोधोऽपि