________________
१२७
अलंकारकौस्तुभः। वाचकपदाभावात् वाचकलुप्तेति केचित् । तदसत् । विपोऽप्युभयलुप्तोदाहरणत्वानुपपत्तेः । तत्रापि प्रकृतेः सादृश्ये लक्षणासंभवादिति । अत एव 'तद्वाचकस्येवादेर्वाक्षेपलभ्यत्वात्' इत्युक्तं न्यायपञ्चाननादिभिः। क्यङादीनां वाचकमात्रलुप्तोदाहरणविरोधाच्च। यथा हि ‘सादृश्यमात्रवाचकत्वाभावात्तल्लोरमात्रवाचकत्वमिति वाचकलुप्तत्वमव्याहतमिति भावः ॥ विपोऽपीति ॥ ननु प्र. कृतेः सादृश्ये लक्षणायामपि तस्य वाचकलुप्तत्वे किं बाधकं सादृश्ये तस्य शक्त्यभावात् । तावतैव एतन्मते वाचकलुप्तत्वव्यवहारात् ॥ तथा च रसगङ्गाधर एव–'कुचकलशेष्वबलानामलकायामथ पयोनिधेः पुलिने । क्षितिनाथ कीर्तयस्ते हारन्ति हरन्ति हीरन्ति ॥' इति क्विवन्ते वाचकधर्मलुप्तामुदाहृत्योक्तम्, तत्र हारादिशब्दालक्षणया हारादिसादृश्यं बोधयन्ति । लुप्तोऽपि स्मृतः विबाचारमिति पक्षे वाचकधर्मलोपः स्पष्ट एव, हारादिशब्द एव लक्षणया तादृशसादृश्याभिन्नमाचारमिति पक्षेऽपि सादृश्यस्येव धमस्यापि बोधात्तन्मात्रबोधकाभावाल्लोप एवेति तत्कोऽयमुपालम्भ इति चेत्॥उच्यतेसादृश्ये लक्षणाखीकारेऽपि वाचकलुप्तत्वानुपपत्तेरित्यरविन्दसुन्दरं मुखमित्येतद्वाक्यार्थबोधविचारावसरे प्रपञ्चितत्वात् । तदभिप्रायेणात्र क्यविबादिसाधारण्येनानुपपत्त्युद्भावनात् । समुदायस्यैव विशिष्टार्थे शक्तिरिति पक्षेऽपि सादृश्यमात्रबोधकत्वाभावाद्वाचकलोप एवेति द्वितीयपक्षं दूषयति-वाचकमात्रेति । इदं च क्यादिकमेवाधिकृत्य बोध्यम्, क्विबन्ते वाचकमात्रलुप्तत्वाभावापत्तेरिष्टापत्त्यैव परिहारात् । तत्रोभयलुप्तत्वाङ्गी. कारेण एकमात्रलुप्तत्वाङ्गीकारात् । ननु क्यादिकमप्यधिकृत्य रसगङ्गाधरोपरि नेदमनिष्ठापादानं क्यङादावपि तैरुभयलुप्तत्वाङ्गीकारेण वाचकमात्रलुप्तत्वा[न]भ्युपगमात् । तथाहि क्यच्क्यडोर्वाचकलुप्तोदाहरणत्वं प्राचीनोक्तमयुक्तमेव तन्मात्रलुप्ताया एव वाचकलुप्तपदार्थत्वात् । अत्र च धर्मलोपस्यापि संभवेन द्विलुप्तान्तर्भावस्य न्याय्यत्वात् । न च क्यडायुक्ताचार एव सामान्यधर्मोऽस्तीति वाच्यम् । धर्ममात्ररूपस्थाचारस्योपमायामप्रयोजकत्वात् । 'नारीयते समरसीनि सपत्नसेना' इत्यादौ प्रकाकारान्तरेणोपस्थितानां कातरत्वादीनामाचारभेदाध्यवसाये सत्येव साधारण्यखीकारात् । अन्यथा 'त्रिविष्टपं तत्खलु भारतायते' इत्यादौ सुप्रसिद्धत्वादिरूपाचारोपस्थितिमात्रेणोपमानिष्पत्तिप्रसङ्गात् । न चेष्टापत्तिरनुभवविरोधात् । 'सुपर्वभिः शोभितमन्तराश्रितैः' इत्यादिबोधोत्तरमेव तदुल्लासात् । अत आचारमात्ररूपो धर्मो नोपमानिर्वाहक इति धर्मलोपोऽप्यत्रावश्यक उपमानप्रयोजकतावच्छेदकरूपेण धर्मवाचकपदशून्यत्वस्यैव धर्मलो. पशब्दार्थत्वात् । अन्यथा 'मुखरूपमिदं वस्तु प्रफुल्लमिव पङ्कजम्' इत्यादौ वस्तुत्वादिरूपधर्मोपादानेन पूर्णोपमापत्तरिति तत्र व्यवस्थापितत्वात् ॥ अतः क्यङादावुभयलुप्तत्वापादानमपीष्ठापादानमेवेति कथं दूषणत्वेन तदुपन्यास इति चेत्-सत्यम् । तथापि
१. 'वाचकधर्ममात्र' ख.