________________
'काव्यमाला। शाचारस्य क्यडाद्यर्थकत्वकल्पने प्रमाणाभावात् । अपि च 'उपमानादाचारे' इति ह्यधिकारः । उपमानार्थकपदोत्तरमाचारार्थे क्यङादयो भवन्तीति सूत्रान्तरैकवाक्यतयार्थः । तथा च यदि इवाद्यधिकारो न क्रियते तदा प्रकृतेरुपमानार्थकत्वमेव न स्यादिति क्यङादय एव तदुत्तरं दुर्लभाः स्युरिति क्यजादीनामुपमानपरतानियमव्युत्पत्त्या तेषां श्रवणमात्रेणौपम्यस्य तद्वाचकस्येवादेर्वा आक्षेपलभ्यत्वात् । अत एवेयं श्रौत्येव क्यजादेरुपमानोत्तरत्वनियमादिति न्यायपञ्चाननादयः ॥
प्रकृत्यैव लक्षणया सादृश्यप्रतिपत्तिरिति मतेनेदम् । समुदायस्यैव तत्सादृश्यप्रयोजकाचरणकर्तृशक्तत्वमिति नयेऽपि सादृश्यविशिष्टान्यतरमात्रबाधकमप्याह-किंचे(अपि चे)ति॥अधिकार इति। ननु 'उपमानादाचारे'इति सू. त्रस्य क्यच्प्रत्ययविधायकत्वात्कथमधिकारत्वोक्तिः, कार्यविशेषोपादानेन पैदा(रा)र्थ. त्वाभावात् । सत्यम् । वयं क्यच्प्रत्ययविधायकत्वेऽपि 'कर्तुः क्यङ्' इत्यादावुपमानादाचारे इति पदद्वयानुवृत्त्या तथात्वोक्तेः । अत एवाह-सूत्रान्तरैकवाक्येति । परंतु चण्डीदासग्रन्थे क्यप्रत्ययमेवोपक्रम्य विचारात् तद्विध्येकवाच्यतापनत्वमुखेनैव 'उपमानादाचारे' इति सूत्रमुद्भावितम् ॥ तस्मादिति । इवादिप्रयोगादेव सादृश्यप्रतियोगित्वरूपोपमानत्वनिर्वाहात् । सदृशाचारस्य क्यजाद्यर्थत्वे तु तदुत्तरमुपमानत्वप्रयोगावपि तदुत्पत्तिदशायां तथा न स्यात्तदभिप्रायेणैव उपमानत्वोपपादने तु उपमानादिति पदानर्थक्यं स्यात् । न च तत्सामर्थ्यादेव क्यप्रत्ययादीनां सदृशाचारार्थकत्वसिद्धिरिति न तद्वैयर्थ्यमिति वाच्यम् । एवमपि सदृशाचारे इत्येव सूत्रन्यासापत्तेः । अस्मद्रीत्या च यथान्यासमेवेति सूत्रोपपत्तेः। उपसंहारप्रन्थपालोचनयोजनया जयरामभट्टाचार्याणामपि इवाद्यध्याहारनिरासनिर्बन्धो नास्तीति प्रतीयते इत्यभिप्रायवानाहक्यजादीनामिति ॥ लक्षणयेति । एवं हि तत्र खीकृतम् , क्याचारो धर्ममात्रं उपमानपदस्य तनिरूपितसादृश्ये लक्षणसादृश्यस्य च पदार्थान्तरत्वनये तस्य प्रयोजकतासंसर्गेण, समानधर्मात्मकत्वे त्वभेदसंसर्गेण धर्मेऽन्वयः । तस्याश्रयतया उपमेये. ऽन्वयः इति, एवं च सादृश्ये शक्क्याभावाद्वाचकलुप्तत्वमिति भावः ॥ विशिष्टस्यैव पदस्य विशिष्टार्थे शक्तिरिति पक्षे सादृश्येऽपि शक्तिसत्त्वात्कथं वाचकलुप्तत्व मित्याशङ्कयाहसमुदायस्यैवेति । एतावान्प्रकृतेरेतावान्प्रत्ययस्येति विभागस्यात्रानभ्युपगमात् ॥ सादृश्यति । श्रौतोपमायां सादृश्यमात्रवाचकपदसत्वम् । आर्थोपमास्थले तु सादृश्यविशिष्टार्थमात्रवाचकसदृशादिरूपपदसत्वमिति । तत्रैव वाचकसत्वेऽपि अत्र तत्सादृश्यप्रयोजकाचरणकर्तृशक्तत्वेन प्रयोजकत्वादिरूपार्थवाचकत्वस्यापि सत्वात् । न तदन्यत.
१. 'तस्मात्' इति पाठो भवेटीकानुसारात्. १. 'अधिकारत्वा' ख. २. मूलपुस्तकद्वये तु तथा च' इत्येव दृश्यते.