________________
अलंकारकौस्तुमः। नवत्क्यचोऽपि भेदादौ शक्तिरित्यर्थोऽनुशासनाल्लभ्यते, येन तत्र शक्तिः स्यात् । अतः क्यजादेः साधारणधर्ममात्रार्थत्वात् द्योतकलुप्तत्वं दुर्वारमिति दिक् ॥ ___ यद्यप्येतदधिकृत्य चण्डीदासादय आहुः-ननु नारीयते इत्यादौ कथमौपम्यप्रतिपादकप्रयोगाभावः । क्यङादीनामेव तदर्थविहिततया तत्कर्मक्षमत्वात् । अथैषां प्रत्ययत्वेनास्वतन्त्रतया प्रयोगाभावेन वा न सम्यगौपम्यप्रतीतिरिति चेत् । तर्हि वतिकल्पबादावपि तथैव प्रसज्येत । न हि प्रत्ययतया तद्धितान्ययोः कश्चिद्विशेषः । कल्पबादय इवादितुल्यतयौपम्यवाचकाः । क्यङादयस्तु द्योतका एवेत्यपि न । इवादीनामपि वाचकत्वसंदेहात् । अस्तु वा तेषां वाचकत्वं तथापि समुदितमेव पदं वाचकम् । प्रकृतिप्रत्ययौ स्वखार्थवाचकाविति मतद्वयेऽपि वत्यादिक्यङाद्योः साम्यमेवेति । सत्यमेवम् । तथापि प्राचीनोपरोधनियन्त्रितोऽयमाचार्यों विद्वानपि ईदृशानि दुर्यशःसंकुचितानि संकटानि प्रविशतीत्यत्र किं ब्रूमः ॥ ___ यत्तु केनचिदुक्तम्-वत्यादय इवाद्यर्थेऽनुशिष्यन्ते क्यङादयस्त्वाचारे इति वैषम्यम्-इति, एतदपि रिक्ततरम् । न हि क्यङादय आचारमात्रार्थाः किं तु सदृशाचारार्थाः-इति, तदप्यत एव परास्तम् । सह
वीक्षायां प्रत्ययशक्तिकल्पने गौरवादनुशासनविरोधाच्च, भेदायुपस्थितिरध्याहृतादिवपदादेव युक्तेति भावः । किं च सुताद्यन्विते आचारे पौराद्यन्वयासंभव इत्ययुक्तम् । प्रथममुक्तरीत्या सुतादिप्रकृत्यान्विते आचारे-पुनः ‘सनाद्यन्ता धातवः' इति चानेन क्यजायन्तस्य सुतीयत्यस्य धातुसंज्ञायां सत्यां विशिष्टे तत्र पौरादिकर्मकखान्व. यसंभवात् । सुतमिवाचरतीत्यनेन धात्वर्थेन कर्मान्तरस्यावश्यमाकाङ्कितत्वादिति द्योतयन्नाह-दिगिति ॥ चण्डीदासादय इत्यादिपदेन तदनुवादिसाहित्यदर्पणादिसंग्रहः । वाचकत्वसंदेहादिति ॥ तेषां द्योतकत्वमिति । वैयाकरणाभ्युपगमात् । समुदितमेवेति । पदस्फोटाभिप्रायकं राममित्यखण्डपदस्यैव रामप्रकारककर्मत्वविशेष्यकबोधजनकत्वं नतु रामपदेन रामस्य, प्रत्ययांशेन च कर्मत्वस्य, प्रतिपादनमिति तत्राभ्युपगमात् ॥ स्वस्वार्थेति । उभाभ्यां प्रत्येकं खखवाच्यार्थोपस्थापने तदन्वयबलेन विशिष्टप्रतीतिसंभवात् इति नैयायिकैरङ्गीकृतत्वात् ॥ तदप्यत एवेति । इवाद्यर्थ एव सादृश्यमिति व्यवस्थापनादेवेत्यर्थः । साधकाभावमुक्त्वा