________________
१२४
काव्यमाला । समानम्। अतः क्यच आचारजातीय आचारो भेदश्वार्थः। अत एव च 'सुतं सुतीयति' इत्यादिर्न प्रयोगः । तथा च 'पौरं सुतीयति' इत्यादेः सुतभिन्नपौरवृत्तिर्यः सुताचारजातीयाचारस्तदनुकूलकृतिमानित्यादिरर्थः । एवं च सुतपौरादेः सादृश्यविशेष्यकबोधात् श्रौती पूर्णोपमैवेयं न तु वाचकलुप्तेति, तन्न । 'सुतमिवाचरति' इत्यादिविवरणानुरोधेन इवादिकल्पनस्य प्रामाणिकत्वात् । आचारे वाच्ये उपमानवाचकपदात्क्यच्प्रत्ययो भवतीत्यनुशास. नार्थः । स च इवाद्यध्याहारेऽप्यविरुद्धः । न हि सन्प्रत्ययस्येच्छायां विधा
अत एवेति । भेदस्यापि क्यजाद्यर्थत्वादिति भावः । यद्यपि भेदस्य इवपदार्थत्वेऽपि 'सुतं सुतीयति'इत्यादिप्रयोगापत्तिर्नास्त्येव सुतादिभेदस्य सुताद्यन्वयानर्हत्वसाम्यात् ,तथापि क्यजादिस्थले भेदोऽवश्यं प्रतीयत इत्यत्रैवायमुपष्टम्भः । स च लाघवात्क्यजाद्यर्थ एवेत्युक्तमित्यन्यदेतत् । सुतभिन्नेति । अत्र प्रकृत्यर्थस्य सुतादेः प्रतियोगितया प्रत्ययार्थभेदे, तस्य च विशेषणतासंबन्धेन उपमेये पौरादौ, तस्य वृत्तित्वे द्वितीयार्थे, तस्य मुख्यविशेष्यभूते द्वितीयाचारे, पुनः प्रकृत्यर्थस्य सुतादेः प्रथमाचारे, एवं सुतभिअपौरादिवृत्तित्वविशिष्टस्य सुतविषयकाचारजातीयाचारस्य धात्वर्थस्य कृतावन्वय इति क्रमः । एवं च एकत्राचारे प्रकृत्यर्थस्यान्वय एकत्राचारे पौरादेरिति उभयत्र तदन्व. योपपत्तिः । पदजन्योपस्थितिभेदसत्त्वादिति फलितार्थः ॥ सादृश्यविशेष्यकेति । क्यजादिप्रकृत्यर्थस्य उपमानत्वनियमात् , यत्र सादृश्यविशेषणीभूतस्योभयमानत्वनियमस्तत्रैव श्रौतीति पूर्वमेतन्मतव्यवस्थापनादित्यर्थः । पूर्णोपमेति । क्यजादीनामेव सादृश्यार्थकत्वेन तेषां श्रूयमाणत्वेन च वाचकलुप्तत्वाभावादित्यर्थः । तदेव दर्शयतिन त्विति । विवरणेति । यद्यपि विवरणमनुमानविधया क्यजादीनां सादृश्यार्थकत्व एव साधकं न त्विव पदाध्याहारे, तथापि सादृश्यप्रतीत्यावश्यकत्वदर्शनार्थमेव तदुक्तम् । न हि तद्वाक्यार्थबोधविषयत्वविरहिणोऽर्थस्य वाचकेन पदेन तद्वाक्यार्थों व्याख्यायत इति तात्पर्यात् । न च सादृश्यप्रत्यये विवादाभावात्तत्र कृतं साधकोपन्या. सेन । किं सादृश्यं क्यजादेरेवार्थः, उत अध्याहृतस्य इवपदस्येत्यत्रैव विप्रतिपत्तेरिति वाच्यम् । सादृश्यप्रत्यये उक्तरीत्या दृढीकृते क्यजादीनामेव तत्र शक्तिकल्पने गौरवात् । इवादिकल्पने च तेषां तद्वाचकत्वस्य कल्पितत्वात्तत एव तत्प्रतीतौ लाघवादित्यभिप्रायात् । अत एव सत्प्रत्ययादेरिच्छादिशक्तिविलोपप्रतिपत्तिं निरस्यन्नाह-आचारे इत्यादि ॥ स चेति । आचारस्य क्यजर्थताप्रतिपादकः सूत्रार्थ इत्यर्थः । अविरुद्ध इति । इवाध्याहारेऽपि क्यजादीनामाचारार्थकतारक्षणादित्यर्थः । सन्प्रत्ययादस्य वैषम्यमाह-न हीति । तथा च इच्छास्थानीये सूत्रोपात्ते आचारे मया शक्तिरभ्युपगम्यत एव 'सादृश्यं तु प्रतीयमानं अध्याहृतपदार्थः, उत प्रत्ययार्थः' इति