________________
अलंकारकौस्तुभः। इति वाक्यात् 'चैत्रः कृतिमान्' इति बोधापत्तेः। किं च-अश्रुतस्येवादिपदस्य कल्पनापेक्षया क्यजादिशक्तिकल्पनमेवोचितम् । न च गौरवम्। सन्प्रत्ययादेरपि इच्छादिशक्तिविलोपापत्तेः । तत्रापि इच्छतीत्यादेरध्याहारसंभवात् । अथ तत्रानुशासनाद्विनाप्यध्याहारं बोधाच्च शक्तिरिति चेत् क्यजादावपि पचतीति । पाकानुकूलकृत्यभाववानित्यर्थः ॥ चैत्रः कृतिमानिति । चैत्रविशेष्यकपाकानुकूलकृतित्वावच्छिन्नप्रतियोगिताकाभावप्रकारकबाधज्ञानस्य चैत्रविशेष्यककृतित्वावच्छिन्नप्रकारताकबोधं प्रत्यविरोधित्वात् । नीलदण्डाभाववानिति ज्ञानस्येव दण्ड. वानिति ज्ञाने बाधबुद्धौ प्रतियोगितावच्छेदकतापर्याप्त्यधिकरणं यो धर्मस्तद्धर्मावच्छिन्नप्रकारकज्ञानत्वस्यैव प्रतिबध्यतावच्छेदकत्वात् , तादृशं चात्र पाकानुकूलकृतित्वम्, प्र. कारतावच्छेदकं तु कृतित्वमेव, तच्च प्रतियोगितावच्छेदकताया पर्यायधिकरणमेव । अतः 'चैत्रः पचति' इति वाक्यात् चैत्रः कृतिमानिति बोधस्तादृशबाधकालेऽपि दुर्वारः। उक्तनियमस्वीकारे तु पाकरूपप्रकृत्यर्थानन्वितायाः कृतेश्चैत्रादौ अन्वयासंभवात् । पाकानुकूलकृतिमानिति बोधस्य च यथोक्तप्रतिबन्धसत्वेनानुत्पादनात्तादृशबाधधीकाले तद्वाक्यस्य न वाक्यार्थबोधजनकत्वमित्यर्थः । एवं च पदान्तरार्थनिष्ठविषयतानिरूपितविषयतासंबन्धेन शब्दबुद्धित्वावच्छिन्नं प्रति प्रकृत्यर्थावच्छिन्नविषयतानिरूपितविषयतासंबन्धेन प्रत्ययजन्योपस्थितिः कारणमिति पर्यवस्यति । अतः सुताद्यनन्वितस्यैवाचारस्य पौराद्यन्वयानर्हत्वादाचारे प्रथमं सुतादि प्रकृत्यर्थान्वयाभ्युपगमे च निराकाङ्कत्वात्तत्र पौराद्यन्वयानर्हत्वाचारे प्रथमं सुतादिप्रकृत्यर्थान्वयाभ्युपगमे च निराकाङ्क्षत्वात्तत्र पौराद्यन्वयतादवस्थ्यमिति फलितार्थः ॥ ननु 'चैत्रो न पचति' इति बाधज्ञानसत्वे 'चैत्रः पचति' इति वाक्याचैत्रः कृतिमानिति बोधानुत्पादेऽपि प्रकृते प्रथममाचारे पौराधन्धयः स्यादेव । तत्र पश्चादपि कृतेः प्रकृत्यर्थान्वयविरहात् । अत्र च पौराद्यन्वयानन्तरं सुतादावपि तदन्वयाभ्युपगमेन वैषम्यात् ॥ यत्तु प्रकृत्यर्थानन्वितप्रत्ययार्थस्थान्यत्र नान्वय इत्युक्तम् । तदकिंचित्करम् । देवदत्तेन दृष्ट इत्यादौ देवदत्तकृतिविषयदर्शनविषय इति बोधदर्शनात् , निष्ठाप्रत्ययार्थस्य तृतीयार्थकृत्यन्वयानन्तरमेव प्रकृत्यर्थदर्शनान्वयाभ्युपगमात् । तथा चोक्तव्युत्पत्त्यसिद्धिमेव लिखित्वा अद्य स्थित्वेत्यादौ क्त्वाप्रत्य. यार्थस्याव्यवहितपूर्वकालस्यापेत्यनेन सममभेदान्वयः समर्थितो द्रव्यकिरणावल्युपाय विवरणे. पक्षधरमिश्रजलदढकुरादिभिस्तस्मात्प्रकृतिप्रत्ययार्थयोः परस्परान्वय एव आवश्यको नतु प्रकृत्यर्थान्वयात्पूर्व प्रत्ययार्थस्यान्यत्रानन्वयोऽपि । तावतैव न पचतीति बाधकाले पचतीत्यस्मात्कृतिमानिति बोधवारणादित्यपरितोषादाह-किं चेति ॥ क्यजादिशक्तीति । क्यजादिनिष्टशक्तीत्यर्थः ॥ न च गौरवमिति । शक्तिकल्पनमपेक्ष्याध्याहार एव लाघवादित्यर्थः ॥ इच्छादिशक्तीति । इच्छादिविषयकशक्तीत्यर्थः । विलोपापत्तेरिति । न चेष्टापत्तितद्वाचकत्वस्यैव भाष्यकाराद्यभियुक्तसंमतत्वात् ॥