________________
. काव्यमाला।
.. अत्र वदन्ति-'पौरं सुतीयति' इत्यादौ क्यजादीनामाचारमात्रार्थत्वे सुताद्यन्विते आचारे पौरादिकर्मकत्वान्वयासंभवः । न च–सुताद्यनन्वितस्यैवाचारस्य पौराद्यन्वयः-इति वाच्यम् । प्रकृत्यान्वितप्रत्यया
बोधात् । अन्यथा 'चैत्रो न पचति' इति बाधधीसत्त्वे 'चैत्रः पचति' न च प्रतियोगित्वस्य संसर्गतयैव भानात् तद्वैयर्थ्यमेव निपातातिरिक्तनामार्थयोर्भदान्वयखीकारात् , अन्यथा घटो न' इत्यादावनुपपत्तेरिति वाच्यम् । तथापि साधुत्वार्थत्वसंभवात् । मैवम् , अव्ययोत्तरविभक्तरेव साधुत्वार्थत्वात् । प्रथमैकवचनमेवाव्ययेभ्य उत्पद्यते-तस्यैव लोप इति पक्षस्यैव महाभाष्यकारैः सिद्धान्तितत्वात् । नञत्तरपञ्चम्यत्पत्ती प्राणाभावात् । यत्त एवकारस्य तदन्वयिपदसमानविभक्तिकत्वमिति लीलावतीशिरोमणौ प्रतिपादितम् ॥ यत्तु अव्ययेभ्यः सर्वविभक्त्युत्पत्तिरिति अभ्युच्चयपक्षमाश्रित्य समर्थनीयम् । न चैवं खपश्येत्यादीनां खरादीनां कर्मत्वप्रतीतिः कथमिति वाच्यम् । तेषां सत्त्ववाचित्वेन सर्वविभक्त्युत्पत्तेः न चैवमव्ययत्वं न स्यात्सत्त्ववाचिन एव तथात्वादिति वाच्यम् , पाठसामर्थ्यांदव्ययसंज्ञा प्रवृत्तेः । एवं च यथोक्तव्यभिचारः स्फुट एवेत्यलमिति प्रपञ्चेन । एवं अध्याहृतस्य इवपदस्य भेदादिकमर्थः । इति स्थितम् ॥ संप्रति भेदोऽपि क्यडादेरेवार्थ इति जयरामभट्टाचार्यमतमाह-अत्र वदन्तीति । पौरमिति । काव्यप्रकाशोपन्यस्तोदाहरणाभिप्रायेण 'पौरं सुतीयति जनं समरान्तरेऽसावन्तःपुरीयति विचित्रचरित्रचञ्चः । नारीयते समरसीम्नि कृपाणपाणेरालोक्य यस्य लसितानि सपत्नसेना ॥' सुतीयतीति कर्म क्यच् , अन्तःपुरीयतीत्यधिकरणे क्यच् , नारीयत इति क्यङ्, इति त्रयाणामेकश्लोक एवोदाहरणम् ॥ क्यजादीनामिति । आदिपदात्क्यसंग्रहः, विचारसाम्यसूचनाय स्वयं क्यप्रत्यये बोधमुक्त्वा क्यजादौ एतद्विप्रतिपत्त्युपन्यास इति द्रष्टव्यम् ॥ आचारमात्रेति । मात्रपदाढ़ेदव्यवच्छेदः ॥ सुताद्यन्वितेति । प्रत्ययार्थस्य प्रकृत्यर्थेनैव समुस्थिताकाङ्क्षत्वेन तदन्वयस्यान्तरङ्गत्वात् ।पौरादीति। एककर्मान्वयादेव निराकाङ्क्षतया कर्मान्तराकाडाविरहात् । न च प्रत्ययार्थाचारस्य निराकाङ्कत्वेऽपि पौरमित्यादिपदाकाङ्क्षयैव तदन्वयः स्यादिति वाच्यम् । अन्वयप्रतियोगिनोर्मध्येऽन्यतरस्य निराकाङ्क्षत्वे परपदार्थानन्वयात् ॥ तदुक्तमाचार्यचरणैः-'न चान्यदाकाङ्क्षान्वयबीजम्, अपि तूभयाकाङ्क्षा' इति ॥शब्दखण्डे मित्रैरप्युक्तम्-'द्वयाकाङ्क्षायां चान्वयधीः, न त्वन्यतराकाङ्क्षायाम्' इति ॥ सुताद्यनवितेति । तथा च आचारस्य कर्मानन्वयेन तत्साकाङ्क्षत्वात् । तत्र पौरमित्यादीनामन्वयोपपत्तिरिति भावः । न चैवं पौराद्यन्वयसंभवेऽपि सुतादिप्रकृत्यर्थानन्वयतादवस्थ्यं निराकासत्वसाम्यादिति वाच्यम् । पौराद्यन्वयोपपादानमात्रे तात्पर्यात् । तदाकाङ्क्षया अन्तरङ्गत्वेन पुनस्तत्रान्वय इत्यभिप्रायाद्वा ॥ प्रकृत्यथेति । प्रकृत्यर्थनिरूपितविशेष्यताप्रकारतान्यतररहितप्रत्ययार्थस्य पदान्तरार्थान्वयानहत्वात् ॥ अन्यथेति । प्रकृत्यर्थानन्वितस्यापि प्रत्ययार्थस्य पदान्तरार्थान्वयखीकार इत्यर्थः ॥न