________________
अलंकारकौस्तुभः न्वयाभ्युपगमात् । आख्यातार्थकृतौ तदर्थवर्तामत्कान्क्येन द्वित्तीय नियमाभावाच ।
संबन्धमात्रेणेति द्रव्योपायविवरणे मित्रैरप्युद्भावितम् । एवं च स्थलविशेषे प्रकृत्यर्थप्रकारकबोधं प्रति प्रत्ययार्थान्वयार्थकपदजन्योपस्थितेरपि विशेष्यतासंबन्धेन कारणतावच्छेदकीकृत्य कार्यकारणाभावः । कल्प्यः प्रामाणिकत्वात् । अत एव 'नातिराने षोडशिनं गृह्णाति' इत्यत्र षोडशिग्रहणाभाव इष्टसाधनमिति बोधो दीधितिकारादिभिः खीकृत इति भावः ॥ द्वितीयदोषं व्यभिचारेण दूषयति-आख्यातार्थेति । 'चैत्रः पचति' इत्यत्र पाकानुकूलवर्तमानकृतिमांश्चैत्र इति बोधात् । कृतिवर्तमानत्वयोः प्रत्ययार्थयोरपि परस्परमन्वयात्प्रत्ययार्थनिष्ठविशेष्यतानिरूपितविशेषणतासंबन्धेन शाब्दत्वावच्छिन्नस्य वर्तमानत्वेऽपि सत्त्वात् प्रकृतिजन्योपस्थितेश्च तत्र विरहादिति भावः । न चै. वमप्युक्तसंबन्धेन शाब्दत्वावच्छिन्नं प्रति प्रकृतिखवाचकप्रत्ययान्यतरजन्योपस्थितेरेव हेतुत्वं कल्प्यते, वर्तमानत्वस्य प्रकृतिजन्योपस्थितिविशेष्यत्वाभावेऽपि वर्तमानत्ववा. चकप्रत्ययजन्योपस्थितेविशेष्यतासंबन्धेन तत्र सत्त्वात् । ततश्च इवार्थवृत्तित्वस्य आ. चारे प्रत्ययार्थेऽन्वयो न युक्तः । वृत्तित्वस्य प्रकृतिप्रत्ययान्यतरार्थत्वाभावादिति वा. च्यम् । प्रभाकरनये 'न कलजं भक्षयेत्' इति वाक्ये कलअभक्षणाभावविषयकं कार्य इति बोधाभ्युपगमात् । कार्यस्य तन्मते लिडर्थत्वात् प्रत्ययार्थत्वात् । प्रत्ययार्थनिष्ठ. विशेष्यतानिरूपितविशेषणतासंबन्धेन शाब्दत्वावच्छिन्नस्य णिजर्थाभावेऽप्युत्पत्तेस्तत्र प्रकृतिजन्योपस्थितेः खवाचकप्रत्ययजन्योपस्थितेश्चान्यतरस्याप्यभावेन तथापि व्यभिचारप्रतीकारविरहात् । किंच चतुर्थाध्यायेऽभावकारणताविचारावसरे 'नानुपमृद्य प्रादुर्भावात्' इति न्यायसूत्रम् । अनुपमृद्य कारणमविनाश्य प्रादुर्भावो न भवति कार्यस्य, न हि बीजमनुपमृद्य अङ्कुरः प्रादुर्भवति । अतः कार्यकाले कारणस्य सत्त्वविरहादभावस्य कारणत्वमागतमेवेति तस्यार्थः । तत्र नानुपमृद्य प्रादुर्भावो यतस्तस्मादिति व्याचक्षाणैर्वाचस्पति मित्रैर्दीधितिकारादिभिश्च कण्ठरवेणैव प्रादुर्भावस्य नअर्थान्वयं कृत्वा नन· र्थस्य पञ्चम्यर्थहेतुत्वान्वयः खीकृतः । अनुपमृद्य प्रादुर्भावादिति । तथा च हेतुत्वरूपप्रत्ययार्थनिष्ठविशेष्यतानिरूपितविशेषणतासंबन्धेन शाब्दस्य नअर्थाभावे. ऽप्युत्पत्त्या तस्य च प्रकृतिप्रत्ययान्यतरार्थत्वाभावेन दुर्वार एव व्यभिचारः ॥ एवं 'तेषां मोहः पापीयानामूढस्येतरोत्पत्तेः' इति सूत्रेऽपि इतरोत्पत्त्यभावादिति अन्वयबोधाभ्युपगमात् । न च तत्रापि प्रादुर्भूतपदोत्तरपञ्चम्यर्थहेतुत्वे नञर्थाभावस्य नान्वयः, किंतु नम्पदोत्तरपञ्चम्यर्थ एव तथा च नो हेत्वर्थकपश्चम्याः प्रकृतित्वेन अभावे प्रकृतिजन्योपस्थितिरस्त्येवेति न व्यभिचारः । न च तदुत्तरपश्चमीश्रवणापत्तिरिति वाच्यम् । 'अव्ययादाप्सुपः' इत्यनुशासनबलेन तस्यालोपसंभवात् । न च प्रादु. र्भावपदोत्तरपश्चम्या अनन्वयापत्तिरिति वाच्यम् । तस्याः प्रतियोगित्वार्थकत्वात् ।
१६