________________
१२०
काव्यमाला । ___ अत्र 'कर्तुः क्यङ् सलोपश्च' इत्यनेन उपमानादाचारे कर्तरि क्यङ् भवति.उपमानवाचकपदस्य सकारान्तत्वे सति सकारलोपश्चेत्यर्थकेन सूत्रेण क्यङ् । अत्राचारः प्रत्ययार्थः । अध्याहृतस्येवपदस्य च तद्भिन्नावृत्तित्वं तद्त्तित्वं चार्थः । तथा च मेघभिन्नवृत्तिमेघवृत्तिश्रीरामविषयकाचारानुकूलकत्याश्रय इत्यर्थः । प्रकृत्यर्थस्येवार्थे वृत्तित्वे तस्य चाचारे प्रत्ययार्थेऽन्वय इति पर्यवसितम् । न च तद्युक्तम् । प्रत्ययार्थानन्वितस्य प्रकृत्यर्थस्यान्यत्रान्वयासंभवात् । प्रत्ययार्थे प्रकृत्यर्थभिन्नस्यान्वयविरहाचेति चेत्, न । उक्तस्थले उपमानादिति वचनसामर्थ्यात् इवार्थविशेषणीभूतस्य प्रकृत्यर्थस्या
तात्कथं क्यङित्तीमामाशङ्कां परिहरन्सूत्रं व्याचष्टे-उपमानादिति । पूर्वसूत्रादुपमानादाचारे इति पदद्वयानुवृत्तेः उपमानादित्यनन्तरं कर्तुः सुबन्तादिति पदद्वयमधिकं बोध्यम् । उपमानवाचकेति । तथा च वाक्यभेदात्, चकारस्य च अन्वाचयशिटत्वात् प्रत्ययः सर्वतोऽपि भवति, सलोपस्तु सकारान्तस्थल एवेति न दोष इत्यर्थः । यद्यपि क्यङादयो वैकल्पिकाः पक्षे वाक्यस्यापि द्रष्टत्वात् , तथापि प्रकृतानुपयोगात् विकल्पोऽत्र सूत्रार्थमध्ये नोक्त इति ध्येयम् ॥ भेदादाविति । मेघादेरुपमानस्य प्रतियोगित्वेन भेदे निरूपकत्वेन च वृत्तित्वे अन्वयाभ्युपगमात् ॥ प्रत्ययार्थेति । 'प्रकृतिप्रत्ययौ स्वार्थे सह ब्रूतः' इति कात्यायनोक्त्या प्रकृतिप्रत्ययान्यतरार्थनिष्टविशेष्यताप्रकारतान्यतरसंबन्धेन बोधं प्रति विशेष्यतासंबन्धेन तदन्यतरजन्योपस्थितेः कारणत्वकल्पनात् । प्रकृते च मेघादिनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबोधस्य भेदादावुत्पत्तेः । प्रकृतिप्रत्ययान्यतरजन्योपस्थितेश्च तत्र विशेष्यतासंबन्धेनाभावात् । भेदादीनां इवपदार्थत्वाभ्युपगमादित्यर्थः । वृत्तित्वरूपस्य इवपदार्थस्य आचारान्वयमप्युतरीत्या दूषयति-प्रत्ययार्थ इति । प्रत्ययार्थनिष्ठविशेष्यतानिरूपितविशेषणतासंबन्धेन शाब्दबोधं प्रति विशेष्यतासंबन्धेन प्रकृतिजन्योपस्थिते: कारणत्वकल्पनात् । 'चैत्रः पचति' इत्यत्र कृतेश्चैत्रविशेषणत्वेन भानात् प्रत्ययार्थनिष्ठप्रकारतानिरूपि. तविशेष्यतासंबन्धः कार्यतावच्छेदकतया न निवेशनीय इति प्रत्ययार्थनिष्ठविशेष्यतेत्यादिकमेवोक्तम् । प्रकृते च प्रत्ययार्थे आचारे वृत्तित्वादेरिवार्थस्यान्वयात् । वृत्तित्वे प्रत्ययार्थनिष्ठविशेष्यतानिरूपितविशेषणतासंबन्धेन शाब्दत्वरूपकार्यतावच्छेदकावच्छिनोत्पत्त्या तस्य इवपदार्थत्वेन प्रकृतिजन्योपस्थितेश्चात्राभावेन व्यभिचारापत्तरिति भावः ॥ वचनसामर्थ्यादिति । यद्यप्यन्वये आकाङ्क्षव बीजं न तु वचनम् , तथापि वचनरूपप्रमाणोपष्टम्भेन तथैवाकाङ्क्षोनीयत इति तात्पर्यम् । तथा च मेघादेः साक्षात् आचाररूपप्रत्ययार्थान्वयेऽपि भेदादिविशेषणतापन्नस्य प्रकृत्यर्थस्य मेघादेः परम्परया तत्रान्वयसत्त्वान्न दोषः । अत एव प्रकृत्यर्थान्वयमात्रे व्युत्पत्तेः । स च यथाकथंचितू