________________
अलंकारकौस्तुभः ।
११९
इति, तन्न । 'उपपदमतिङ्' इति समासस्य तत्रापि सद्भावेन समासगनेनैव तत्क्रोडीकारात् । विभाजकतावच्छेदकधर्मानवच्छिन्नत्व एवाधिक्यस्योद्भावयितुमुचितत्वात् । न चैवं वत्यादीनामपि तद्धितत्वादिना विभागे न्यूनत्वापत्तिरिति वाच्यम् । इष्टापत्तेः । विभागस्यैच्छिकत्वात् । इयानेव हि विशेषः । तद्धितत्वे साक्षाद्विभाजकोपाधौ वतित्वादयस्तत्र परम्परया विभाजकाः । वतित्वादिनैव विभागे तु तयैव विभाजकोपाधय इति । किं तु समासत्वमेव विभाजकतावच्छेदकं वदतां कथं तदवच्छिन्नस्थल एवाव्याप्तिरुद्भाव्यत इति नवीनमेतद्भवदीयपाण्डित्यं न विद्म इति ।
कर्मक्यचि यथा मम— 'घर्मागमापगमकालसमुत्सुकानां
मण्डली सपदि दण्डकबर्हियूनाम् ।
कादम्बिनीयति तनूं रघुनन्दनस्य सौदामिनीयति मुदा जनकेन्द्रकन्याम् ॥'
अत्रोभयत्र ‘उपमानादाचारे' इति कर्मणि क्यच् । अधिकरणक्यचि यथा मम
'भूधरीयति पयोधरद्वये चन्द्रमस्यति मुखे तवास्य दृक् ।
विद्रुमीयति रदच्छन्दान्तरे दर्पणीयति कपोलमण्डले ॥'
इह सर्वत्र ‘अधिकरणाच्च' इत्यधिकरणे क्यच् । भूधरे इवाचरतीत्या - दिरर्थः । अत्राचारः प्रत्ययार्थः ।
क्यङि यथा'चन्द्रश्चण्डकरायते मृदुगतिर्वातोऽपि वज्रायते
माल्यं सूचिकुलायते मलयजालेपः स्फुलिङ्गायते । "अয়लोकं स्तिमितायते विधिवशात्प्राणोऽपि भारायते हो हन्त प्रमदावियोगसमयः संहारकालायते ॥'
-
स्मृता' इति हलायुधः । ‘तडित्सौदामिनी विद्युत्' इत्यमरः । ' अधिकरणाच्च' इतीतिपूर्वसूत्रस्थवार्तिकादित्यर्थेः ॥ ननु 'कर्तुः क्यङ् सलोपश्च" इति सूत्रे सकारलोपसंनियोगशिष्ट: क्यङ् सकारान्तादेव प्रातिपदिकात्स्यात् । ततश्च 'चण्डकरायते' इत्यादावकारा
१. 'स्थल' ख.