________________
११८
काव्यमाला। उपमावाचकस्य समासान्तर्गतत्वादप्रयोगः । अत्रोपमानधर्मयोः समासः । कचित्रयाणामपि ।
यथा'जितमिह भुवने त्वया यदस्याः सखि बकुलावलि वल्लभासि जाता । परिणतबिसकाण्डपाण्डुमुग्धस्तनपरिणाहविलासवैजयन्ती ॥'
अत्र बिसकाण्डमुपमानम् , पाण्डुत्वं साधारणधर्मः, स्तन उपमेय इति त्रयाणां समासः ।
यत्तु 'कोकिलालापिनी' इत्यत्र कोकिलवदालपतीत्यर्थे 'कर्तर्युपमाने' इति सूत्रेण णिनिप्रत्यये वाचकलुप्तातिरिक्ता । तथा च चित्रमीमांसायां वाचकलुप्ताश्लोकः'यं पश्यन्दीपदर्श सपदि मनसिजः कीटनाशं स नष्टः
स्वान्ते योऽन्तःपुरीयस्यति भजनकृतस्ते कुमारीयति द्राक् । मूलस्तम्भायते यस्त्रिभुवनभवने कोकिलालापिनी द्रा
ग्वामाङ्के कल्पवल्लीं श्लथयति कुवलश्यामलां तां भजामि ॥' न्धवर्णनम् । गजेन्द्रः ऐरावतः । णिअक्कलं वर्तुले देशी ॥ त्रयाणामपीति । यद्यपि त्रयाणां समासेऽपि 'उपमानानि सामान्यवचनैः' इति यावदंशे समासः तत्रैव द्वितीयसमासपूर्वपदभागे उपमा, न तु द्वितीयांशेऽपि, तथाप्युपमेयस्याप्येकसमासान्तः र्गतत्वमित्यभिप्रायेणायं पृथगुपन्यस्त इति ध्येयम् ॥ उक्तविभागे चित्रमीमांसोद्भावितं न्यूनत्वमाशङ्कते-यत्त्विति । दीपदर्शमिति कर्मणमुल् । कीटनाशमिति कर्तृणमुल । अन्तःपुरीयतीत्याधारक्यच् । कुमारीयतीति कर्मक्यच् । स्तम्भायत इति क्यङ् । कोकिलालापिनीति णिनिः । कुवलयश्यामलेति समासः । एवं च वाचकलुप्तायां णिनिप्रत्ययस्यापि दीक्षितैर्गणनादत्र च तदनुक्ते,नत्वमिति भावः । उपपदमिति उपमानरूपस्योपपदस्य णिनिप्रत्ययान्तेन समासादिति भावः ॥ यद्यप्येवं णमुलोऽपि पृथगुपादानमनहे तत्राप्युपपदसमाससद्भावात् । यदि च तत्र समाससत्वेऽपि तस्योपमानार्थकत्वाभावात् णमुल एव सादृश्यार्थे विधानाच्च पृथग्गणनं सादृश्यार्थकत्वेनैवात्र विभागकारणादित्युच्यते, तर्हि प्रकृतेऽपि णिनेरेव सादृश्यार्थे विधानं न तु समासस्येति णिनिरपि पृथगेव गणयितुमर्ह इति तुल्यम् । तथापि अनव्ययसमासत्वमत्र विभाजकोपाधितया विवक्षितम् । णमुलन्तस्य चाव्ययत्वात्पृथगुपादानमिति रहस्यम् ॥ 'उपमानादाचारे' इति सूत्रं उपमानात्कर्मणः सुबन्तादाचारेऽर्थे क्यच् स्यात् । 'कादम्बिनीमिव,' 'सौदामनीमिव, च आचारतीत्यर्थः । 'चलनवाभ्रमाला तु बुधैः कादम्बिनी