________________
अलंकारकौस्तुभः ।
११७ इवाद्यर्थेऽनुशासनाभावेन क्रूराचाराद्युपमेयप्रयोगाभावेन तथात्वस्वीकारात् , रामकः इत्यादीनामप्युपमात्वोच्छेदप्रसङ्गाच्च, प्रकृते प्रकृत्यर्थे प्रत्ययविधायकेनानुशासनेन सादृश्यार्थ एव तद्विधानाच्च । अन्यथा सर्वत्राप्यनवस्थापत्तावुन्मत्तकलहः स्यादिति दिक् । अथ वाचकलुप्तामाह
__ न वाक्यजाञ्जकलुक् । द्योतकलुप्तोपमा वाक्ये तद्धिते च न संभवति । मुखं चन्द्रो रमणीयमित्यतः सादृश्याप्रतीतेः । कल्पबादीनां द्योतकतया तत्प्रयोगे द्योतकलोपस्यैवासंभवात् । वाक्यपदं तद्धितस्याप्युपलक्षणमित्यर्थः । अत एव तद्भेदव्युत्पादनमुखेनोक्तार्थ दर्शयति
वृत्तौ कर्माधारक्यचि क्यङि स्याद्विधा णमुलि ॥१२॥ वृत्तौ समासे कर्मक्यचि, आधारक्यचि, क्यङि, कर्मणमुलि, कर्तृणमुलि चेति षड्डिधेत्यर्थः ।
तत्र समासे यथा_ 'दीसइ विद्मअम्बं सिन्दूरारुणगइन्दकुम्भच्छाअम् ।
मन्दरधाउकलं किअ वासुइमण्डलणिअक्कलं रहबिम्बम् ॥' इह विद्रुमवत्ताम्रमिति 'उपमानानि सामान्यवचनैः' इति समासः । अतिशयोक्तौ चोपमानतावच्छेदकरूपेणैव उपमेयबोधाभ्युपगमेन उपमेयार्थकपदाप्रयोगादिति भावः । सादृश्यार्थ एवेति । यद्यपि सादृश्यार्थविहितानामप्युत्प्रेक्षापर्यवसानं भवत्येव, तस्या अपि सादृश्योपजीवकत्वात् । 'कस्तूरीतिलकं ललाटफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलिं प्रति । याः कर्णे विकचोत्पलन्ति कुचयोरङ्के च कालागुरुस्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥' इत्यादौ उपमाप्रक्रमोत्प्रेक्षेत्यलंकारसर्वखकारादिभिरङ्गीकारात् । तथाप्यत्र संभावनार्थत्वे साधकाभावादौत्सर्गिकसादृश्यपरतैव कल्प्यत इत्यभिप्रायः । इदमेव स्फोरयत्नाहदिगिति । अत एवेति । वाक्यपदस्य तद्धितानुपलक्षकत्वे तद्धितेऽपि द्योतकलुप्ताभेदान्व्युत्पादयेदित्यर्थः । द्विधेत्यनेन पूर्वोपक्रान्तकर्माधाररूपभेदद्वयं गृह्यत इति भ्रमो माभूदित्यभिप्रायेण कर्तृकर्मपरत्वेन व्याचष्टे-कर्तृणमुलीत्यादि । 'दृश्यते विद्रुमातानं सिन्दूरारुणगजेन्द्रकुम्भच्छायम् । मन्दरघातुकलं किल वासुकिमण्डलवतुलं रविबिम्बम् ॥' [इति च्छाया ।] सेतुकाव्ये सायं सूर्यमण्डलस्योत्तरोत्तरं रक्तत्वमा१. 'प्रसङ्गादु' ख. २. 'वासुइफण' ख.