________________
काव्यमाला। अत्र सकचग्रहरभसहठचुम्बनं कस्य सदृशमिति उपमानस्याप्रयोगः । समासे यथा
'यत्तुलनामधिरोहसि लोकोत्तरवर्णपरिमलोद्गारैः । __ कुसुमकुलतिलक चम्पक न वयं तं जातु जानीमः ॥'
द्विविधेयमिति प्राचीनानुसारादुक्तम् । वस्तुतस्तु उपमानलुप्ता तद्धितेऽपि संभवति । यथा-'चञ्चत्कः, बृहत्कः' इति । तथा च कैयटः-अचञ्चन्नपि यश्चञ्चन्निव लक्ष्यते स चञ्चत्कः । यथा मणिः स्यन्दमानप्रभवत्वात् । अबृहन्नपि बृहन्निव प्रसृतप्रभावत्वाद्यो दृश्यते स बृहत्कः' इति । अत्र हि चञ्चत्त्वं बृहत्त्वं च धर्मः, मण्यादिरुपमेयः, कन्प्रत्ययश्च वाचकः, पञ्चत्वाद्याश्रयस्य चाप्रयोगः । न च-इयमुत्प्रेक्षा । मणौ चञ्चत्वाद्यभावात् साधारणधर्मस्योभयवृत्तावेवोपमाखीकारात् । तथा च 'अयं मणिः चञ्चत्वप्रकारकसंभावनाविषयः' इति वाच्यम् । आरोपितेनापि चञ्चत्वेन साधारण्योपपत्तेः । वास्तववृत्तित्वस्य चालंकारतायामप्रयोजकत्वात् । वस्तुतःउत्प्रेक्षा त्वशकैव नास्ति । तथा हि-'केन प्रकारेण चञ्चद्दहतोरुपसंख्यानम्' इति वार्तिकम् । 'इवे प्रतिकृतौ' इति कन् च सादृश्यार्थ एव भवति। अन्यथा चञ्चेत्यादीनामप्युपमात्वमसिद्धं स्यात् । नापीयमतिशयोक्तिरिति वाच्यम् । मण्यादेः प्रयोगसत्त्वात् । 'आयःशूलिकः' इत्यत्र ठक्प्रत्ययस्य कार्या । अत्रोपमानस्य कस्येति सामान्यशब्देनैव निर्देशात् । उपमानतावच्छेदकरूपावच्छिन्नोपमानोपस्थितिजनकप्रयोगाभावादुपमानलुप्तत्वम् ॥ परंतु धर्मस्याप्यप्रयोगात्कथमुपमानमात्रलुप्तत्वमेकलुप्ताया एवात्र प्रकृतत्वादित्यपरितोषात् । 'यस्य तुलाम्' इति पाठे वाक्यगापि बोध्येति वक्ष्यति-यथा चञ्चत्क इति । कन्प्रत्ययविधायकवार्तिकस्य अग्रे वक्ष्यमाणत्वादत्र तदनुपन्यासः ॥ आरोपितेनापीति । अत एव 'तमेव भान्तमनुभाति सर्वम्' इत्यत्र सूर्यादीनां ब्रह्मानुकारसमर्थनाय अयोदहनयोः खरूपसाम्याभावेऽपि क्रियासाम्यं भवत्येव । यद्यपि दहन क्रिया वह्निमात्रवृत्तिस्तथापि वहौ खरूपेण, अयःपिण्डे त्वारोपेणेति तस्या उभयवृत्तित्वात्साम्यं इत्युपपादितम् उत्तरमीमांसायां प्रथमाध्यायतृतीयचरणे वाचस्पत्यादिषु ॥ वास्तवेति । वास्तवपदस्य भावप्रधानत्वमाश्रित्य तदस्यास्तीत्यर्थे ठक् ॥ असिद्धं स्यादिति । न चेष्टापत्तिः 'तं जगत्यभजन्मर्त्यश्चश्चाचन्द्रकलाधरम्' इति चित्रमीमांसायामेवोपमात्वाङ्गीकारात् । अस्माभिस्तु तद्भेदस्याधिक्यमानं निराकरिष्यत इत्यन्यदेतदिति भावः । प्रयोगसत्त्वादिति ।