________________
अलंकारकौस्तुभः ।
११५. मरिहसीति वक्ष्यमाणे नात्रोपमानलोप इत्यलंकाररत्नाकरः । एतेन तत्रोपमानस्यासत्त्वं नाभिमतमपि त्वप्राप्तिरेवेत्युपमानलोप एवेति तदुत्तररसगङ्गाधरदृषणमपास्तम् । उक्तरीतेस्तत्राभिधानात् । तस्मादेतदुदाहरणीयम् । 'चन्दसरिसं मुहं से सरिसो अमअस्स मुहरसो तिस्सा | सकअग्गहरहसाअलचुव्वण्णं कस्स सरिसं से ॥'
तीकुसुमसदृशमित्युक्तौ मालती कुसुमस्यैवोपमानत्वादित्यर्थः ॥ एतेनेति । खप्रतियोगिकसादृश्याश्रय निषेधस्यापि खोत्कर्षपर्यवसानमिति व्यवस्थापनेत्यर्थः । यदि हि तेनात्रोपमानस्यासत्त्वमेवाभिमतमित्युपमानत्वमेवात्र नास्तीत्यभिप्रायेणोपमानलुप्तत्वाभाव इत्युच्यते, तदा 'असत्त्वं नाभिमतं ' 'अपि त्वप्राप्तिरेव' इति तदुपरि दोषः प्ररोहमासादयेत् । तेन तु मालतीकुसुमस्यात्रोपमानत्वात्तस्य च श्रूयमाणत्वात्कथं उपमानलुप्तत्वमित्येव विवक्षितम् । तत्र च उपमानस्य अप्राप्तिरेव विवक्षितेति समाधानम् भुक्तवान्तिप्रायमेवेत्यर्थः । तदेतदाह-उक्तरीतेरिति । कल्पितं हि स्वप्रतियोगिकसादृश्याश्रयनिषेधस्याप्युत्कर्षपर्यवसायित्वम् । उपमानत्वेन प्रसिद्धे वस्तुनि उपमेयप्रतियोगिकसादृश्यनिषेधात्मके प्रतीपविशेषे इति भावः । किंबहुना तद्वृत्तिधर्मविशेषस्यान्यत्र निषेध उत्कर्ष हेतुरिति सर्वसिद्धम् । तथा च श्रुतावेव 'न तदन्यो मघवन्नास्ति माहेन्द्रं ब्रवीमि ते वाचः' इति । अत्र इन्द्रान्यस्मिन् सुखजनकत्वाभावोत्त्या इन्द्रस्तुतिप्रसिद्धेः ॥ नन्वेवमस्तु तदुक्तरीत्या प्रकृतोत्कर्षपर्यवसानम्, तथापि कथमत्रोपमात्वं प्रकृतानुयोगिकसादृश्यस्यैव उपमात्वात् इति चेत्, तवापि कथं तत् । उपमानतावच्छेदकरूपावच्छिन्नप्रतियोगिताकत्वस्यापि 'चन्द्र इव' इत्यादौ दर्शनात् । उपमेयनिष्ठविशेष्यता निरूपितविशेषणताशालित्वस्यापि सादृश्ये दर्शनात् प्रकृते च तदभावात् ॥ अथ दर्शनमात्रेऽपि न तदुपमात्वप्रयोजकम् । किंतु प्रकृतोत्कर्षकतामात्रमिति चेत्, तुल्यं ममापि । तथापि यत्सादृश्यप्रतियोगितायां उपमेयतावच्छेदकावच्छिन्नत्वखाश्रयमात्रवृत्तिखानवच्छेदकधर्मसामानाधिकरण्योभयाभावः सा उपमेति त्वदुक्तलक्षणस्यात्राव्याप्तिः । प्रतियोगिताया उपमेयतावच्छेदकावच्छिन्नत्वेन तदभावादिति चेत्, नूनमद्यापि कामादीनामुपमेयत्वमेवेति श्रद्धाजाड्यं न त्वया परित्यक्तम् । अस्माभिस्तत्रोपमानत्वस्यैवाभ्युपगमात् । उपमेयतावच्छेदकावच्छिन्नत्वाभावस्य प्रतियोगितायां सत्त्वात् । नहि प्रकृतत्वाप्रकृतत्व एवोपमेयतोपमानताप्रयोजके, किंतु सादृश्यानुयोगित्वप्रतियोगित्वे एवेति बहुसंमतत्वात् । अग्रे यथा स्थानं वक्ष्यमाणत्वाच्चेत्यलमतिविस्तरेण । एवं पूर्वोक्तमुदाहरणं निरस्य उदाहरणान्तरमाह - चन्देति । 'चन्द्रसदृशं मुखं तस्याः सदृशोऽमृतस्य मुखरसस्तस्याः । सकचग्रहरभसहठचुम्बनं कस्य सदृशमस्याः ॥ [ इति च्छाया ।] अत्र कस्य सदृशमित्युक्त्या तत्र विशेष्यतापत्तेरित्येवार्थो लभ्यते इति नानन्वयशङ्का