________________
११४
काव्यमाला।
समां नाश्रौषमित्यत्रापि इन्द्राणीप्रतियोगिकसादृश्याश्रयनारीविषयकज्ञानाभाववानहमित्येवार्थः ॥ अथ कथंचित्तत्रापि 'कामवृत्तिसादृश्यप्रतियोग्यन्यो दर्शनीयविषयः' इति बोधं खीकुर्याः । तर्हि 'इवादिपदानामुपमानपदोत्तरमेव प्रयोगः' इति नियमव्याघातापत्तिः । श्रौत्या अप्युपमानलुप्तायाः प्रकृते संभवेन आर्युवेति नियमक्षतिश्च । 'इवादिपदानां यदुत्तरं प्रयोगः तस्यैवोपमानताधीः इति नियमभङ्गश्चेति दिक् ॥ अत एव ढुण्डो लत्तो मानुषेष्वथ वान्येषु दृष्टपूर्वाथवा श्रुता ॥' इति भैमीपरं महाभारतमवधेयम् ॥ कामवृत्तीति । त्वंपदार्थस्य कामस्यानुयोगितासंबन्धेन इवार्थे सादृश्ये तस्य च प्रतियो. गितासंबन्धेन अन्यस्मिन् इति रीत्येति भावः । चन्द्र इवेत्यादौ सादृश्यनिष्ठविशेष्यतानिरूपितप्रकारतायां प्रतियोगिताया एव, सादृश्यनिष्ठविशेषणतानिरूपितविशेष्यतायां चानुयोगिताया एव संसर्गत्वमिति सर्वानुभवसिद्धत्वात् । प्रकृते च कामनिष्ठविशेषणतायां सादृश्यनिष्ठविशेष्यतानिरूपितायां आधेयत्वस्य संसर्गत्वं सादृश्यनिष्ठविशेषणतानिरूपितान्यनिष्ठविशेष्यतायां च प्रतियोगित्वस्येति तद्विरोधात् । अनुभवस्यापि खरसवाहिनस्तथा विरहात्वकल्पितनियमानुरोधेन तत्कल्पने चातिप्रसङ्गात् इत्याद्यपरितोषसूचनाय कथंचिदित्युक्तम् ॥ ननूपमानोत्तरमेवेवादीनां प्रयोग इति नियमो नास्त्येव, 'उद्बाहुरिव वामनः' इत्यादौ व्यभिचारादतस्तद्भङ्गेऽपीष्टापत्तिरेवेत्यत आहश्रौत्या अपीति । यदि तु खनिष्ठसादृश्यप्रतियोगिनिषेधस्यैव प्रकृतोत्कर्षहेतुत्वमिति खोक्तिरक्षणमात्रनिबन्धेन पूर्वोक्त प्रतिज्ञाविरोधदोषमप्यनाकलय्य उपमानलुप्तायाः श्रौतत्वमिष्टापत्त्यैव परिहर्तुमिच्छेत्तत्राह-इवादीति । नन्वेतत्प्रथममेव दूषितं 'उ. बाहुरिव वामनः' इत्यादौ उद्बाहुपदोत्तरमिवादीनां प्रयोगेऽपि तदर्थस्योपमानत्वाभावात् इति, तत्कथं पुनरप्ययमेव दोष उद्भाव्यते इति चेत्, सत्यम् । यथा दूषितार्थाभिप्रायमभ्युपेत्य तदस्खरसादुपमानलुप्तायाः श्रौतत्वमापादितम् । इदानीं तु तत्रेष्टापत्तिमप्याशङ्कय तस्यैव निष्कर्षः कथ्यते । तथा हि-यदुत्तरमित्यादि । यत्पदार्थनिष्ठविशेषणतानिरूपितविशेष्यताशालिखार्थकत्वमित्यर्थः । इवादिपदार्थसादृश्यनिष्ठविशेष्यतानिरूपितविशेषणताशालिनोऽर्थस्य उपमानत्वनियमात् । नह्यत्रापि व्यभिचारः उदाहुरिवेत्यादी प्रयोगपौर्वापर्येऽपि सादृश्यनिष्ठविशेष्यतानिरूपितविशेषणताशालिनां वामनादिपदार्थानामुपमानत्वस्य सत्वात् । न च त्वमिवेत्यादावेव उक्तव्यभिचारशङ्केति बाच्यम् । पक्षीयस्य व्यभिचारसंशयस्य प्रमाणमात्रोच्छेदकत्वेन दूषणत्वाभावात् । अत एव उपमायाः श्रौतत्वव्यवस्थापकमिदमेव तैरङ्गीकृतम् । यदुपमानत्वादिविशिष्टशाब्दबोधविषयत्वमिति अत इष्टापत्तिरियमनिष्टापत्तिरेवेति नाभ्युपगन्तुं न्याय्येति । एतेन त्वमिवेत्यादिनैषधश्लोकस्य उपमानलुप्तोपमानत्वेन आधुनिकचन्द्रालोकविवरणे कुत्रचिदुदाहरणं निरस्तम् । तदेतत्सर्व प्रकाशयन्नाह-दिगिति । नात्रोपमानेति । माल
१. 'न्तो वक्ष्यसीमहि मरि' ख.