SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः। . . ११३ शश्वद्वारभुवि प्रशस्तिरचनावर्णायमानेक्षण श्रेणीसंभृतगोत्रभिन्मयजयस्तम्भो यथा रावणः ।। अत्र हि रावणसदृशस्याश्रवणोक्त्या यथोक्तार्थलाभः ।। यथा वा'त्वमिव कोऽपि परापकृतौ कृती न ददृशे न च मन्मथ शुश्रुवे ।' इत्यत्र प्रकृतः कामः । तथा च 'कामप्रतियोगिकसादृश्यवानन्यो दर्शनश्रवणविषयत्वाभाववान्' इति बोधः । एवं वेदेऽपि 'इन्द्राणीमासु नारीषु सुभगामहमश्रवम् । न ह्यस्या अपरां च न ।' इत्यत्र 'न चास्या अपरां समाम्' इति निरुक्तकारोक्तेः । इन्द्राणी आत्मनेपदं समर्थयन्ते । न च तथापि कर्मणः सत्वात्कथमकर्मकत्वमिति वाच्यम् । अविवक्षितकर्मत्वस्यैवात्राकर्मकत्वात् । वस्तुतः कर्माभावस्य सकर्मकेष्वसंभवात् । तदुक्तम्-'धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥' इति ॥ भारं वहतीत्यत्र सकर्मकत्वेऽपि, नदी वहतीत्यत्राकर्मकत्वम् । अर्थान्तरे स्यन्दरूपे धातोवृत्तेः । 'जीवति' इत्यत्र धात्वर्थान्तर्भूतकर्मत्वात् । 'जीव प्राणधारणे' इति कर्मीभूतस्य प्राणस्य धात्वर्थान्तर्भावात् । प्रसिद्धरिति मेघो वर्षतीत्यादौ जलस्य तत एव लाभात् । अविवक्षेति नेह गम्यत इत्यादौ भावे लकारात् । वस्तुतस्तु प्रकृते रक्षासीत्यस्य प्रथमान्तत्वस्य सर्वसंमतत्वात्तानि सन्तीतिवाक्यार्थस्य कर्मत्वं कल्पनीयमेव । अतः साक्षात्कर्मसंबन्धाभावात् विनाप्यध्याहारं आत्मनेपदं समर्थयितुं शक्यम् । अविद्यमानकर्मकत्वस्य त्वन्मतेऽपि बाधात् । अश्रूयमाणकर्मकत्वस्य ममापि सत्वादिति न कोऽपि दोषः। 'कर्मक्षमोऽलंकमा॑णः' इत्यमरः। तथा च जगत्रयविपद्रूपकर्मक्षय इत्यर्थः ॥ यथा शब्दघटितमुक्त्वा इवशब्दघटितमाह-त्वमिवेति । नैषधे भैम्याः कामोपा. लम्भः-खमदनदहनात् ज्वलनात्मना ज्वलयितुं परिरभ्य जगति यः' इत्युत्तरार्धम् । अत्राप्युपमानलुप्तत्वस्वीकारे तु इवादिपदसत्त्वात् श्रौतत्वं स्यादिति भावः । यद्वक्ष्यति अथ(त्र) कथंचिदित्यादि । अत्र 'ददृशे' 'शुश्रुवे' इत्युभयत्र कर्माख्यातस्य सविषयकार्थधात्वन्तरवर्तित्वेन लक्षणया विषयत्वमर्थः । त्वं पदार्थस्य कामस्य प्रतियो. गितया इवपदार्थे सादृश्येऽन्वयः। तस्याश्रयतया कोऽपीति पदार्थेऽन्यस्मिन् आख्यातार्थविषयत्वस्य प्रतियोगितया नामार्थाभावे तस्य विशेषणतया अन्यपदार्थे इति पदार्थान्वयः इति । नैयायिकमते प्रथमान्तविशेष्यकबोधखीकारादोधाकारमाह-तथा चेति । वेदेऽपीति । अपिशब्दात् 'न देवेषु न यक्षेषु तागू रूपवती क्वचित् ।
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy