________________
११२
काव्यमाला। देनोपमानोपादाने तदुत्तरमिवादेः संभवः । न चात्रोक्तरीत्या सदृशपदस्योपमानपरत्वे सादृश्यबोधकपदाभावेन द्विलुप्तत्वं स्यादिति वाच्यम् । सादृश्यप्रतियोगित्वस्योपमानपदार्थतया सदृशपदस्यैव सादृश्यार्थकत्वात् । न च सादृश्यप्रतियोगितारूपस्योपमानत्वस्य सदृशपदार्थत्वे श्रौतत्वं स्यादिति वाच्यम् । उपमानविशेष्यभूताया एव प्रतियोगिताया उपमात्वात् । प्रकृते च पदार्थतावच्छेदकतया तस्या उपमाने विशेषणत्वात् । सदृशपदस्योपमालाक्षणिकत्वेन श्रौतत्वाभावाच्चेति व्याचख्युः ।
काव्यप्रदीपकारस्तु चिन्त्यमेवैतदित्याह । तस्यायमाशयः । प्रकृततया काव्यस्यैवोपमेयत्वमुत्कर्षायेत्यसंगतम् । खनिष्ठसादृश्यप्रतियोगिनिषेधस्यैव खप्रतियोगिसादृश्यानुयोगिनिषेधस्याप्युत्कर्षपर्यवसायित्वात् । यथा'रक्षांसीति पुरापि संशृणुमहे वीरस्तु कस्तादृशो
यो जागर्ति जगत्रयी विपदलंकर्मीणदोर्विक्रमः ।
एवात्रोपमानप्रयोगो विवक्षित इति भावः । पदाभावेनेति । सादृश्य विशेष्यकबोध. जनकपदाभावेनेत्यर्वः ॥ सदृशपदस्येति । लक्ष्यलक्षतावच्छेदकोभयससाधारणसादृश्यार्थकत्वसत्वादित्यर्थः । श्रौतत्वमिति । सादृश्यप्रतियोगिता यत्रशब्देन बुध्यते तत्रैव श्रौतीत्येतन्मतव्यवस्थापनात् । न चेष्टापत्तिः । उपमानलुप्ताया आर्थत्वनियमस्वीकारादित्यर्थः । उपमानेति । उपमाननिष्ठविशेषणतानिरूपितविशेष्यताशालिन्या इत्यर्थः । प्रकृते चेति । सादृश्यप्रतियोगिताश्रयस्योपमानपदार्थतया प्रतियोगितायाः पदार्थतावच्छेदकतया उपमानविशेषणतापन्नत्वादित्यर्थः । सर्वत्रावरसं सूचयन्मतान्तरमवतारयति-काव्यप्रदीपेति। एतदभिप्रायविवरणद्वारा तत्पूर्वावरसं विशदयति-तस्यायमिति ॥ उपमानलुप्ताया आर्थत्वनियमभङ्गभयेन यत्रोपमानलुप्तत्व मिति परैरिष्टापत्तिर्न कर्तुं शक्यते तादृशोदाहरणमाह-रक्षांसीति । अनर्घ्यराघवनाटके विद्याधरस्य विद्याधरान्तरं प्रत्युक्तिः । ननु 'अर्तिश्रुदृशिभ्यश्च' इति वार्तिकेन संपूर्वात् शृणोतेरकर्मत्व एवात्मनेपदस्यानुशासनादत्र 'संशृणुमहे' इत्यात्मनेपदमनुपपत्रम् । 'रक्षांसीति' कर्मण: प्रयोगसत्त्वात् । सत्यम् । प्रमाद एवायमिति केचित् । अन्ये तु कथयद्भयः इत्यध्याहृत्य रक्षांसीयस्य तत्रैवान्वयं कल्पयित्वा रक्षसां कर्मत्वाविवक्षया
१. 'प्रकाश' क. २. न्तो वक्ष्यसीमहि मरि' इति ख.