________________
अलंकारकौस्तुभः ।
१०९ सिद्धयति। तदुक्तं हरिणा-'संबोधनपदं यच्च तक्रियाया विशेषणम् । व्रजानि देवदत्तेतिनिघातोऽत्र तथा सति ॥' इति । कृत्वोर्थानामपि क्रियायामेव संबन्धः । यथा सकृत्पचति, द्विः पचप्ति, पश्चकृत्वः पचतीत्यादि । 'संख्यायाः क्रियाभ्यां वृत्तिगणने कृत्वसुच्” इति वचनेन क्रियायोग एव तदनुशासतात् । एवं कारकस्यापि तस्यामेवान्वयः। करोतीति कारकमित्यन्वर्थसंज्ञाविज्ञानात् । 'तन्दुलं पचतीत्यादौ क्रियान्वथाभावे कारकत्वानुपपत्तेः । प्रथम इति–'तेन तुल्यम्' इत्यनेन विहितो वतिः प्र. त्ययः । तस्यापि क्रियायामेवान्वयः । 'यत्तुल्यं सा क्रिया चेत्' इत्यविधानात् । यथा देवदत्तवत्पठति इत्यादौ । चैत्रवत्सुन्दर इत्यादावप्यनुशासनानुरोधात्साधुत्वार्थमध्याहृतभवतीत्यादिक्रियायामेव तदन्वयः । 'धातुसंबन्धे प्रत्ययाः' इत्यधिकृत्य विदेहितानां तुमुनादीनामपि क्रियायामेव संबन्धः । यथा भोक्तुं पचतीति । पातुं जलमित्यादौ अध्याहृतानयनयादिपदबोध्यायामानयनादिक्रियायामेव तदन्वयः । असमस्तनोऽपि 'न त्वं पचसि' इत्यादौ क्रियानिषेधस्यैव बोधात्तत्रैवान्वयः । 'घटो नास्ति' इत्यादावपि घटास्तित्वप्रतियोगिकाभावबोधाभ्युपगमात् । 'यस्य च भावेन भावलक्षणम्' इत्यनेन विहिता सप्तमी 'गोषु दुह्यमनासु गतः' इत्यादौ तस्या अपि भावेनेति क्रियार्थकभावपदानुरोधात्तत्रैवान्वयः ॥ एवं 'षष्टी चानादरे' इति सूत्रेण विहिता षष्ठी । रुदतिरुदतो वा प्राव्राजीदित्यादौ तस्या अपि क्रियायामेवान्वयः । चकारेण यस्य च भावेनेति पूर्वसूत्रानुकर्षणात् । आस्तामप्रकृतमन्यत् । वतिप्रत्ययस्य तु नामार्थान्वयः कथम् । अत एव 'महानसवत्' इति. दृष्टान्तवाक्योपात्तवत्यर्थस्य पक्षीभूते पर्वतादावप्यन्वयोऽनुपपन्न एव । अत एव 'वह्निमान् भवितुमर्हति' इति क्रियापदयुक्तामेव प्रतिज्ञां सांप्रदायिकाः कुर्वन्ति। यदि त्वनुशासनमप्यवधूय वत्यर्थस्य नामार्थान्वयोऽभ्युपगम्यते तर्हि 'पुष्पेभ्यः' इत्युक्त 'स्पृहयति' इत्यध्याहारोऽपि न स्यात् । न चेष्टापत्तिः, तत्र साधुत्वार्थ तदध्याहार आवश्यक इति त्वत्सिद्धान्तात् । एतदप्युक्तम् । यदि पक्षेऽपि वत्यर्थकारकं वानआदिषु । अन्वेति त्यज्यतां तर्हि चतुर्थ्यां स्पृहि कल्पन इति वैयाकरणभूषणे । अत एव क्रियाविशेषणत्वाद्वतिप्रत्ययस्यासत्ववाचकार्थाविधायकत्वेनैवाव्ययत्वसिद्धौ वतेरव्ययमध्ये पाठो न कर्तव्य इति भाष्यकैयटयोर्व्यवस्थापितमिति चेत् । सत्यम् । पर्यवसाने पुनस्तद्वतोरेव सादृश्यं फलतीत्यभिप्रायेणोक्तग्रन्थानां तदविरोधः संपादनीयः। अत एव 'स्थानिवदादेशोऽनल्विधौ,' 'असिद्धवदन्नात्' इत्यादौ सादृश्यान्वयो नामार्थ एव पर्यवसितमादायैव प्रतीयते ॥ वस्तुतस्तु 'तेन तुल्यम्' इति सूत्रे महाभाष्यकारैः क्रियेति प्रकृत्यर्थविशेषणं प्रत्ययार्थविशेषणं वेति पक्षद्वयं व्याख्यातम् । येन तुल्यं सा क्रिया चेदिति सादृश्यप्रतियोगिनः क्रियात्वविवक्षायां आद्यस्य सादृश्यानुयोगिनः क्रियात्वविवक्षायां द्वितीयस्य, पक्षस्य समुल्लासात् । तत्राद्यपक्षे प्रत्ययार्थस्य सादृश्यानुयोगिनः क्रियात्वेन विशेषणं नास्तीति तृतीयासमर्थात् । क्रियावाचिनो गुणतुल्ये प्रत्ययः स्यात् । यथा 'पुत्रेण तुल्यः स्थूलः' इत्यादौ । द्वितीयपक्षेऽनुसारस्य(?) प्रतियोगिनः क्रियात्वविशे