________________
११०
"काव्यमाला ।
अथोपमानलुप्तामाह— वाक्य समासोभयगोपमानलुप्ता
I ।
इति । वाक्ये समासे चोपमानलुप्तेत्यर्थः । न तु तद्धितेऽपि वत्यादेस्तद्धितस्योपमानवाचकपदोत्तरमेव विधानेनोपमानानुपादाने तदसंभवात् । नापि श्रौतीयम् । इवादिपदानामुपमानानन्तर्यनियमेनोपमानपदं विनान्वयाबोधकत्वात् । अत आर्थी द्विविधैवेयम् ।
तत्र वाक्ये यथा
-
‘सअलकरणपरवीसामसिरिविरअणं सरसकबस्स । दीसइ अहव ण सुबइ सरिसं अंसंसमेत्तेण ॥'
षणं नास्तीति तृतीयासमर्थात् क्रियावाचिनोऽपि क्रियातुल्ये प्रत्ययः स्यादित्याशङ्कय तुल्यपदमहिम्ना प्रकृत्यर्थप्रत्ययार्थयोर्द्वयोरपि विशेषणसिद्धेः । तथा हि- यदा तावत्क्रियया प्रकृत्यर्थो विशेष्यते तदा प्रत्ययार्थस्य क्रियात्वलाभः सामर्थ्यात् । यदा तु क्रियया प्रत्ययार्थो विशेष्यते तदा प्रकृत्यर्थस्य क्रियात्वलाभः सामर्थ्यादिति क्रियाया: क्रियासादृश्यानुपपत्तेरिति । तत्र प्रत्ययार्थविशेषणपक्षे क्रियाया: साध्य (स्वभाव) त्वेन तस्यां विधीयमानो वतिरसत्वभूतार्थाभिधायकत्वेन लिङ्गसंख्यानन्वयात्स्वयमेव “ यन्नव्येति तदव्यय”मिति लिङ्गसंख्यानन्वयित्वमव्ययत्वमिति लक्षणयोगादव्ययत्वं प्रतिपद्यत इति तदर्थं तद्गुणपाठो न कर्तव्यः । वतिना च क्रियासामान्यस्यैवाविधानात्पचतीत्यादिक्रियाविशेषप्रयोगः । प्रकृत्यर्थविशेषणपक्षे तु क्रियाग्रहणेन क्रियावत उपलक्षणे क्रियाद्वारकं क्रियावतः सादृश्यमाश्रयणीयम्, तच्च क्रियावान्प्रत्ययार्थः । ततो लिङ्गसंख्यावदर्थाभिधायकत्वादव्ययत्वं वतेर्न प्राप्नोति तदर्थो वतेः पाठोऽव्ययमध्ये कर्तव्यः । पाठसामर्थ्याच्च सत्त्ववाचित्वेऽप्यव्ययसंज्ञेति स्पष्टं कैयटे ॥ ततो द्वितीयपक्षाभिप्रायेण तस्य नामार्थान्वयोक्तिरित्यलमिति बहुना । एवं बहुच्प्रत्यययोगेऽप्यार्थी धर्मलुप्तोदाहार्या कल्पवादितुल्यार्थकत्वात् । यथा - 'इन्दुमुखाद्बहुतृप्यं तव यद्गुणन्ति नैनं मृगरूपजातितन्मृगतृष्णयैवं । अत्येति मोहमहिमान हिमांशुबिम्बलक्ष्मीविडम्बिमुखवृत्तिषु पाशवीषु ॥' तृणेन सदृशं बहुतृणम् । 'विभाषा सुपो बहुच्पुरस्तात्तु इति सादृश्यार्थ कबहु पूर्वप्रयोगः’ तदसंभवादिति । ' न केवलाप्रकृतिः प्रयोक्तव्या न केवलः प्रत्यय:' इति प्रकृतिविनिर्मुक्तप्रत्ययमात्रस्य प्रयोगानर्हत्वादिति भावः । काव्यप्रकाशकारोक्त विचारसौलभ्याय तदुदाहरणमेवोपन्यस्यति – सजलेति । 'सकलकरणपरविश्रामश्रीविरचनं सर
१. 'लोपे' इत्यलंकारमुक्तावल्याम्, अत्र ख- पुस्तके च पाठः.