________________
१०८
काव्यमाला।
उन्नम्रतां सुकृतसंततिमञ्जरीणां
त्वं व्यञ्जयस्यहह धन्यतरस्य कस्य ॥' समासे श्रौती धर्मलुप्ता यथा'लद्धासाएण चिरं सुरवन्दिपरिग्गहे णिसाअरवइणा ।
सीआ रक्खसवसई दिट्ठिविसंघरं विसोसहिव्व उपणीआ ॥' अत्र सीताविषौषध्योः साधर्म्यमनुपात्तमर्थगम्यम् । आर्थी यथा'अग्घाइ छिवइ चुम्बइ ठवेइ हिअअम्मि जणिअरोमञ्चो ।
जाआकवोलसरिसाइ पहिउ महुअउप्फाइं ॥' अत्र जायाकपोलसदृशानीति समासः । सदृशपदप्रयोगादार्थी । तद्धिते आर्थी धर्मलुप्ता । यथा मम'मुखममृतद्युतिकल्पं कपोलदेशो मुकुरदेश्यः ।।
तस्या दृशां विलासाः कुवलयदलदामदेशीयाः ॥' • 'तेन तुल्यम्' इति विहितवतिप्रयोगे तु धर्मलुप्ता न संभवति । तस्य क्रियासाम्ये विधानेन क्रियारूपसाधारणधर्मप्रयोगं विनानुपपत्तेः ।
साधर्म्यमिति । स्वविरोध्यनिष्टहेतुत्वरूपमित्यर्थः । न चात्र राक्षसवसतिदृष्टिविषगृहयोर्बिम्बप्रतिबिम्बभावोऽप्यस्तीति कथं धर्मलोप इति वाच्यम् । तस्य तत्सादृश्यानुपपादकत्वात् ॥ 'आजिघ्रति स्पृशति चुम्बति स्थापयति हृदये जनितरोमाञ्चः । जायाकपोलसदृशानि पथिको मधूकपुष्पाणि ॥' [इति छाया ।] गाथाकोषे कस्यचिद्विरहावस्थावर्णनम् । क्रियासाम्य इति ॥ 'तेन तुल्यं किया चेद्वतिः' इति सूत्रेण क्रियानिष्ठत्वेनैवोपमेयत्वस्य बोधनादिति भावः ॥ नन्वेवं सर्वग्रन्थेषु तुल्यार्थकवतियोगे नामार्थस्य उपमेयत्वकथनमसंगतमयुक्तं च, वत्यर्थसादृश्यस्य क्रियायामेवान्वयस्य वाच्यत्वात् । तथा च वैयाकरणाः-'संबोधनान्तं कृत्वोर्थाः कारकं प्रथमो वतिः । धातुसंबन्धाधिकारनिष्पन्नमसमस्तनञ् ॥' तथा 'यस्य च भावेन षष्टी चेत्युदितं द्वयम् । साधुत्वमष्टकस्यास्य क्रिययैवावधार्यताम् ॥' अस्यार्थः । संबोधनान्तस्य क्रियायामेवान्वयः । ब्रूहि देवदत्तेति । 'एकतिवाक्यम्' इति कात्यायनोक्तः । एवं च 'समानवाक्ये निघातयुष्मदस्मदादेशाः' इत्येकवाक्यविहितः 'तिङ्कः तिङः' इति निघातः
१. 'विसहर' क. २. 'साधारणधर्मोऽर्थगम्यः' ख. .