________________
अलंकारकौस्तुभः ।
१०७
संभवात् । अन्यथा इवादीनां द्योतकत्वपक्षे चन्द्र इवेत्यादावपि लुप्तोपमानत्वप्रसङ्गात् । पदान्तरेण तादृशार्थबोधे सहकारित्वरूपस्य द्योतकस्य सत्त्वे तद्वाचकत्वस्य पदान्तरे स्वीकारस्यावश्यकत्वाच्च । यदीयमेकलुप्ता, यदि वा द्विलुप्ता, उभयथापि समासमध्येऽन्तर्भावान्न दोषः - इति तत्त्वम् । तत्र वाक्ये श्रौती धर्मलुप्ता । यथा मम -
'आलोक्य चन्द्रमसमिव वरवर्णिनि तावकं वदनम् । न भवन्ति मनसि केषां व्यापाराः पञ्चबाणीयाः ॥'
अत्र मुखचन्द्रयोरुपमायां साधारणधर्मस्याप्रयोग एव लोपः । न च - ए - तादृशस्थले साधारणधर्मस्येवशब्देनैवोपस्थितिरिति प्रागभिधानात्कथमेतत्— इति वाच्यम् । तत्र धर्मत्वेनैव धर्मोपस्थितेर्व्यवस्थापितत्वेनाह्लादकत्वादितत्तद्रूपेण धर्मानुपस्थितेरनुपपत्त्यभावात् । अत एव चन्द्र इव मुखमित्यस्मात् 'मुखमाह्लादकं न वा' इति संशयो न निवर्तत इति बोध्यम् । अत एव तत्तप्रकारेणैव धर्मोपस्थिति वदन्तो ग्रन्थस्वरसानभिज्ञा इति बोध्यम् ।
आर्थी यथा मम—–
'प्रत्यूषकालरजनीकरमण्डलेन तुल्येन सुन्दरि कपोलतलद्वयेन ।
1
टेति । वाचकत्वे संमते हि द्योत्ये इति व्याख्यानं विरुध्येतेति भावः । द्योतकत्वपक्ष इति । वैयाकरणसंमत इति शेषः । 'स वाचको विशेषाणां संभवात् द्योतकोऽपि वा' इति वाक्यपदीयोक्तेः । सहकारित्वेति । तात्पर्यग्राहकविधयेति शेषः । तद्वाचकत्वस्येति । तद्बोधकत्वस्येत्यर्थः । तथा च तत्रैकपदस्य सादृश्ये लक्षणाद्विर्भावश्च द्योतक इत्यवश्यमाश्रयणीयमित्यर्थः ॥ अत्र दीक्षितैर्धर्मलुप्ताधिक्यमापादितम् । एतैस्तु द्विप्ताधिक्यमिति । काव्यप्रकाशकारोपरि द्वयोरप्ययमाक्षेपस्तुल्य एवेत्यभिसंधाय उभयथापि नाधिक्यमित्याह -- यदीति । तथा च प्राचीनकृतविभागस्य नैतदनुक्त्या न्यूनत्वमिति भावः ॥ ' लब्धावादेन चिरं सुरवन्दी परिग्रहे निशाचरपतिना । सीता राक्षसवसतिं दृष्टिविषग्रहं विषौषधीव उपनीता ॥' [इति छाया ।] विषौषधीवेत्यत्र पक्षे इव पदेन सह समासः । सेतुकाव्ये बिभीषणं प्रति श्रीरामवाक्यम् । एवं च यथा सर्पगृहे विषौषधीसंबन्धे तेषामनिष्टम्, तथा सीतानयनेन राक्षसानामपि भविष्यतीति भावः ॥
१. ‘समासे' ख. २. बोध्यमित्यन्तः पाठो नोपलभ्यते ख- पुस्तके. ३. 'तत्रार्थी' ख.