________________
काव्यमाला |
१०६
भूतेन सदृशशब्देन सादृश्यवदभियानेऽपि भावप्रत्ययस्य प्रकृत्यर्थतावच्छेदकशक्ततया तदुक्तसादृश्यस्यैव वाक्यार्थान्वयित्वादित्याहुः ।
न्यायपश्चाननादयस्तु । यत्पदार्थविशेषणस्योपमानत्वनियमस्तत्रैव श्रौती । इवादिविशेषणीभूतस्य चन्द्रादेरुपमानत्वनियमात् । सादृश्यादिपदविशेषणस्य च नोपमानत्वनियमः । चन्द्रसादृश्यमित्यादौ तथात्वेऽपि चन्द्रमुखयोः सादृश्यमित्यादौ व्यभिचारात् — इत्याहुः ॥ तस्माद्धर्मलुप्ता - याः पञ्च भेदाः स्थिताः ।
-
अत्र दीक्षिताः – द्विर्भावेऽपि धर्मलुप्ता दृश्यते । यथा पटुपटुरिति । 'प्रकारे गुणवचनस्य' इति सूत्रेण सादृश्ये द्विर्भावविधानात् पटुसदृश इत्यर्थः । वस्तुतोऽपटावयं प्रयोगः । न चेयं वाक्यगा । 'कर्मधारयवदुत्तरेषु' इति सूत्रेण तत्रैकपद्यविधानात् । नापि समासगा, वास्तवसमासत्वाभावादिति ॥ तन्न । आतिदेशिकसमाससाधारण्येनैवात्रोपमाविभागकरणेनातिदेशिककर्मधारयवद्भावेऽपि समासगायामेव तदन्तर्भावसत्त्वात् । अत एव पटुपटुरित्यादौ समासत्वप्रयुक्ताः पुंवद्भावान्तोदात्तत्वादयोऽपि सिध्यन्तीति।
केचित्तु — वाचकधर्मलुप्तायामेतद्भेदस्याधिक्यम्, न तु केवलधर्मलुप्तायाम् । न च अत्र द्विर्भावस्य सादृश्यवाचकस्य सत्त्वान्न वाचकलोपः — इति वाच्यम् । सादृश्ये द्योत्ये द्विर्भवत इति दर्शनात् द्विर्भावस्य वाचकताया भाष्यकैयटविरुद्धत्वादित्याहुः ॥ तन्न । द्योतकत्वेऽप्युभयलुप्तत्वा
वाद्यर्थेत्यर्थः । धर्मलुप्ताविभागस्य न्यूनत्वमाशङ्कते – यत्त्विति । प्रकार इति । प्रकारे सादृश्ये विवक्षिते गुणवाचकशब्दस्य द्विर्भावो भवतीति सूत्रार्थः ॥ वाक्यगेति । पदद्वयरूपत्वादिति भावः । ननु समासत्वेनैकपद्ये समासगतधर्मलुप्तायामेव तदन्तर्भावः स्यादित्यत आह-नापीति । पटुपटुरित्यादावपीति । पटुपटुः स्त्रीत्यादावित्यर्थः । एवं च यथा ‘समासस्य' इत्यादिषु अन्तोदात्तत्वादिविधायकसूत्रेषु आतिदेशिकसमासोऽपि गृह्यते तद्वदत्रापि मुख्यसमासस्यैवग्रहणे बीजाभावादित्यर्थः ॥ चित्रमीमांसाकारमतं दूषयित्वा रसगङ्गाधरकारमतमाह — केचित्त्विति । भाष्यकै
१. 'द्रढयित्वा' क.