SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः। . १०५ इति चेत्, न । 'तत्र तस्येव' इति सूत्रेण विहितस्य वतेः प्रयोगे हि श्रौती संभवति । न च धर्मलोपः संभवति । उपमेये उपमानसंबन्धबोधकस्य तस्य साधारणधर्मप्रयोगं विनानुपपत्तेः । न हि 'मथुरायामिव सुन्ने' इति संभवति । सप्तम्यर्थाद्यनन्वयापत्तेः । किं तु मथुरावत्सुघ्ने इत्येव । तस्मात् षष्ठयर्थसंबन्धविशेषणस्य सप्तम्यर्थाधारत्वविशेषणस्य साधारणधर्मरूपस्य प्रयोगं विना इवार्थवतेरसंभवान्न तद्धिते श्रौती धर्मलुप्ता । ननु मा भूदिवार्थकवतियोगे धर्मलुप्ता श्रौती, तथापि इवार्थकतद्धितान्तरे सा दुर्वारा । तथा हि । 'इवे प्रतिकृतौ' इत्यधिकारे 'कुशाग्राच्छः' इति सूत्रेण कुशाग्रमिव कुशाग्रीया बुद्धिरित्यत्र छप्रत्ययविधानेन एतादृशस्थले तत्संभवादिति चेत् । अत्राहुः-'इवे प्रतिकृतौ' इत्यधिकारे विहिताः प्रत्ययास्तुल्यार्था एव । 'कुशाग्रतुल्या बुद्धिः' इत्यभेदान्वयदर्शनात् तस्य सादृश्यमात्रार्थत्वे तद्वत्परत्वाभावेनोपमेयसामानाधिकरण्यासंभवात् । न च-इवार्थे तद्विधानविरोधप्रसङ्गः-इति वाच्यम् । सादृश्ये विधानमपि सदृशे पर्यवस्यतीत्यभिप्रायेण सूत्रे इवार्थे तद्विधानेन तदविरोधादिति । अथ साहश्यादिपदप्रयोगे श्रौत्यार्थी वा यथा । _ 'परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु । __ मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥' इत्यादाविति चेत् । अत्र दीक्षिताः। श्रौत्येवेयम् । ष्यञ्प्रत्ययप्रकृति स्थितेहेतुत्वकल्पनात् । सप्तम्यर्थेति । यद्यपि नैयायिकमते वृत्तित्वमेव सप्तम्यर्थो न तु आधारत्वं 'भूतलवृत्तिर्घट' इति बोधस्य तैरभ्युपगमात्, तथापि प्राचीनमताभिप्रायेणेदम् । अधिकरणत्वस्य सप्तम्यर्थस्य निरूपकत्वसंबन्धेन घटादावन्वयस्य तैरङ्गीकारात् । नव्यमते आधारत्वमित्येव व्याख्येयम् । उभयथापि सामान्यधर्मप्रयोगावश्यकत्वे तात्पर्यम् । इवे प्रतिकृताविति । तथा च तस्य इवार्थविहितत्वेन तादृशवतिप्रत्ययवत्प्रयोगे उपमा श्रौती स्यादित्यर्थः । एतादृशेति । 'शिला इव' शिलेयम्। 'दधिशिलाया' इति ढप्रत्ययः । दृढमित्यर्थः । पुण्डरीकमिव पौण्डरीकं मुखं इत्यत्रापीत्यर्थः । वत्रापि कठिनत्वरम्यत्वादिधर्मप्रयोगविरहेण तद्धिते श्रौती धर्मलुप्ता स्यादित्यर्थः । त. द्वत्परत्वाभावेनेति । निपातातिरिक्तनामार्थत्वेन भेदेनान्वयासंभवादित्यर्थः । पर्यवस्यतीति । धर्मार्थकशब्दस्य विवक्षते धर्मिपरत्वादित्यर्थः ॥ इवादीति । इ. १४
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy