________________
काव्यमाला। दाह्रियन्ते । व्यङ्ग्यबोधनान्न तत्र चमत्कारः, किं तु वाच्यवैचित्र्यादेवेति ॥ केचित्तु-तात्पर्यविषयव्यङ्गयराहित्यमेव चित्रत्वम् । तदुक्तम्
'रसभावादिविषयविवक्षाविरहे सति ।
अलंकारनिबन्धो यः स चित्रविषयो मतः ॥' इत्याहुः ॥ अथ लुप्ता निरूप्यते
अन्यतमस्य चतुर्णा विरहे लुप्तां वदन्त्याप्ताः ॥१०॥ चतुर्णामुपमानोपमेयवाचकधर्माणामन्यतमस्याप्रयोगे लुप्ता । सा च त्रिधा संभवति । एकलोपे द्विलोपे त्रिलोपे चेत्यर्थः । तत्र विशेषमाह
अन्यतमस्य च लोपे वाचकधर्मोपमानानाम् । धर्माञ्जकयोरञ्जकसमयोः समधर्मयोः समान्येषाम् ॥ ११ ॥ अत्र पूर्वार्धे एकलुप्तायास्त्रयो भेदाः । वाचकलोपे धर्मलोपे उपमानलोपे चेत्यर्थः । उत्तरार्धे षष्ठयन्तत्रये लोपे इत्यस्यानुषङ्गः । सामान्यधर्मवाचकयोः, वाचकोपमेययोः, धर्मोपमानयोश्च लोपाविलोपात्रिधेत्यर्थः । समान्येषाम् उपमानभिन्नानां त्रयाणामुपमेयधर्मवाचकानां लोपे त्रिलोपा एकविधेत्यर्थः । समान्येषामित्यत्र समपदं सादृश्यप्रतियोगिपरम् । प्रत्येकमेतद्भेदानाह
धर्मलुप्श्रौत्यार्थी वृत्तौ वाक्ये च तद्धिते खार्थी। अस्यार्थः-वाक्ये समासे च श्रौत्यार्थीभेदेन चत्वारः, तद्धिते त्वायें वेति धर्मलुप्तायाः पञ्च भेदाः । ननु तद्धिते धर्मलुप्ता श्रौती कुतो नोच्यते
मपि व्यङ्ग्यं तत्रास्त्येवेत्यत आह-व्यङ्गयेति । तथा च रसाद्यतिरिक्तचमत्कारजनकव्यङ्गयराहित्यमेव चित्रत्वमिति भावः । एवमेतन्मते रसादीनां चित्रत्वप्रयोजकाभावप्रतियोगिताबहिर्भाव उक्तः । संप्रति रसादीनामपि विशिष्टाभावं चित्रस्थले ये समानयन्ति, तन्मतमाह-केचित्त्विति । तात्पर्येति । तथा च तत्र रसादिरूपव्यगयराहित्याभावेऽपि रसादिव्यङ्गयतात्पर्यविषयीभूतव्यङ्गयराहित्यमस्त्येवेति भावः । तदुक्तमिति । ध्वनिकृतेति शेषः ॥ षष्ठयथेति । तत्प्रकारकबोधं प्रति नामजन्योप