________________
१०३
__ अलंकारकौस्तुभः । षष्ठयर्थे तत्रैव यथा... 'प्रत्यग्रमेघवदियं केशकलापस्य ते छाया ।
संतापितजननयना तिरयति संतापसंतानाम् ॥' मेघस्येवेति वतिः । वेदेऽपि यथा--
'प्रियमेधवदत्रिवज्जातवेदोविरूपवत् ।
अङ्गिरसन्महीवृत्तप्रस्कण्वस्य श्रुधीवहम् ॥' प्रियमेधस्येवेति वतिः । एतेषामृषीणामाह्वानं यथा त्वया श्रुतं तथा प्रस्कण्वस्य मुनेः शृणु इत्यर्थः । आर्थी यथा
'उन्नतिमानतिकठिनः समुदितनक्षत्रमालोऽयम् । - बाले पयोधरस्तव कनकाचलवद्वरीवति ॥' इह तुल्यार्थे वतिः । तदेवं षड्डिधा पूर्णा व्याख्याता ॥
अत्रेदं शङ्कयते । चित्रकाव्यमिह निरूप्यम् । तच्च व्यङ्गयरहितत्वे सति । यदुक्तम्- .
'शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ।' इति । अस्ति चोदाहृतेषु सर्वत्र व्यङ्गयमिति । अत्राहु:- रसादिरूपं व्यङ्गयं सर्वत्रास्तीति तस्यावर्ज़नीयसंनिधितया तदनादरेणैवोपमादय उ
'यथैतेषामृषीणामेवं प्रस्कण्वस्य शणुबानम्' इति निरुक्तमाश्रित्यार्थमाह-प्रियमेधादीनामिति । आदिपदेन अत्रिविरूपाङ्गिरःसंज्ञकानां मुनीनां ग्रहणम् । अङ्गिरखदित्यत्र अङ्गिरोवदिति वक्तव्ये। 'अयस्मयादीनि छन्दसि' इति भसंज्ञत्वाद्रुत्वाद्यभावः । जातवेद इत्यग्निसंबुद्धिः । प्रस्कण्वो नामक एव पुत्र ऋषिविशेषः । 'प्रस्कण्वहरिश्चन्द्रावृषी' इति निपातः । अत्राग्निविषयकप्रस्कण्वनिष्टरत्याख्यभावोत्कर्षतया उपमाया अलंकारत्वम् । नक्षत्रेति । 'सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः' इत्यमरः । नक्षत्रमाला मुक्तावलीविशेषः । मेरुपक्षे समुदिता नक्षत्राणां तारकाणां माला पतिर्यत्रेत्यर्थः ॥ यदुक्तमिति । काव्यप्रकाशकृतेति शेषः । रसादीति । आदिपदेन भावरसाभासभावाभासभावोदयभावसंधिभावशबलत्वानां संग्रहः । सर्वत्रेति । तदभावे चमत्कारविरहेण काव्यत्वानुपपत्तेरित्यर्थः । तदनादरेति । रसादिरूपव्यङ्गय. राहित्यं न विवक्षितम् , किंतु तदतिरिक्तव्यङ्गयराहित्यमेवेत्यर्थः । ननु रसायतिरिक्त.