________________
१०२
वाक्ये आर्थी यथा मम -
'जलदोदराददीता भामिनि सौदामिनीलेखा । नीलनिचोलादाविर्भूता कान्तिश्च ते समा रम्या ॥'
काव्यमाला |
अत्र समप्रयोगादार्थी ।
समासे श्रौती यथा
'आविर्भवन्ती प्रथमं प्रियायाः सोच्छ्रासमन्तःकरणं करोति ।
―――――――
सह समासः ।
संतापदग्धस्य शिखण्डियूनो वृष्टेः पुरस्तादचिरप्रभेव ॥' अत्र इयं हीति पूर्वशेषात्कामन्दकी उपमेया । अचिरप्रभवेत्यत्र इवेन
आर्थी यथा मम -
'तीनां दो बहु विषदयन्ती दश दिशो
हरन्ती संतापानुपगतवती स्पर्शविषयम् । प्रयाता स्वच्छन्दं दृशमधि सुधादीधितिकला
समानेयं केषां न हरति मनस्ते तनुलता ॥' अत्र समानपदप्रयोगात्तस्य समासान्तर्गतत्वाच्च । तद्धिते श्रौती यथा मम -
'सुकुमारत्वमरुणता दृशोर्वशीकारकारणत्वं च । भातीह मत्तकाशिनि पाणियुगे तामरसवत्ते ॥' अत्र इवार्थे सप्तम्यर्थे वतिः ।
दृश्यते इत्यर्थः । अनाविद्धया वैरिप्रहरणैरक्षतया तन्वा देहेन त्वं जय शत्रून्, स प्रसिद्धो वर्मणः कवचस्य महिना शस्त्रक्षतप्रतिबन्धकत्वरूपस्त्वां पिपर्तु पालयतु । परशस्त्रेभ्य इत्यर्थः । समासेनेति । जीमूतस्य इवेति पदद्वयानवच्छेदेनेत्यर्थः । असमासेनेति । पृथक् पदद्वयपाठादित्यर्थः । समासस्य नित्यत्वे तु पृथक् पदद्वयपाठो न स्यात् । समासे पूर्वपदे पृथगवग्रहाकरणात् । अवान्तरपदसंज्ञानेकत्वे तदुत्तरकाल - प्रकृतिकामेव पदसंज्ञामादायावग्रहः क्रियते इति वैदिक संप्रदायात् । एतदभिप्रायेणैव 'ग्रीष्मचण्डकर मण्डल भीष्मज्वालसंसरणतापित मूर्तेः । प्रावृषेण्य इव वारिधरो मे वेदनां हरतु वृष्णिवरेण्यः ॥' इति वाक्यगतपूर्णोपमायां रसगङ्गाधरेऽप्युदाहृतत्वादिति भावः ॥
१. 'तत्रार्थी' ख.