________________
अलंकारकौस्तुभः ।
१०१ त्वात् । निभादीनां तु नित्यसमासविषयत्वात् 'चन्द्रेण समं चन्द्रेण निभम्' इत्यादिरीत्या विग्रहः कार्यः । तदुक्तं क्षीरस्वामिना–'उत्तरपदे इत्युक्तेश्चन्द्रेण निभमिति न भवति' इति । वैरिवाचकाः सुहृवाचकाश्च साहश्यार्था ज्ञेयाः । शशाङ्कवदनेत्यत्र 'सप्तम्युपमानपूर्वपदो बहुव्रीहिः' इति समासः । प्रतिबिम्बः स्पर्धत इत्यादयः सादृश्याक्षेपका ज्ञेयाः । तत्र वाक्ये श्रौती यथा
'इतीदृशैर्नैषधसूनृतामृतैर्विदर्भजन्मा भृशमुल्ललास ।
ऋतोरधिश्रीः शिशिरानुजन्मनः पिकखरैर्दूरविकस्वरैर्यथा ॥' अत्र वसन्तश्रीरुपमानम् । भैम्युपमेया । यथेत्युपमावाचि । उल्ललासेति साधारणधर्मः । न चैषां कस्यापि समास इति वाक्यगा॥
यत्तु प्राचीनैः वाक्यगायां यथाशब्द एवोदाहृतः । तन्न । इवेनापि समासस्य नित्यत्वाभावात् । अन्यथा 'उद्वाहुरिव वामनः' इत्याद्यनुपपत्तेः । 'जीमूतस्येव भवति प्रतीकम्' इत्यत्र शाखान्तरे समासेन, शाखान्तरे चासमासेन पदकारैः पाठाच तत्र निर्णीतत्वादिति बोध्यम् । दावपि तथा भ्रमो माभूदित्यभिप्रायेणाह-निभादीनां त्विति । विग्रह इति । 'अविग्रहोऽस्वपदविग्रहो वा नित्यसमासः' इति सिद्धान्तात् । अविग्रह इति तस्य विग्रहेण विवरणमेव न कार्यमित्यर्थः । अस्वपदेति । समासान्तर्गतखपदेन विग्रहो न कर्तव्यः, किंतु तदर्थकपदान्तरेणेत्यर्थः । तदाह-चन्द्रेण निभमिति न भवतीति । समासं विना केवलनिभपदस्यासाधुत्वेन प्रयोगानर्हत्वादित्यर्थः । 'अदश्रमिति विभ्राळि' इत्यनुवाके सूर्यस्तुतिरिति तद्विषयकरत्यङ्गत्वादत्रोपमाया अलंकारक. त्वम् । वीत्यस्य अदश्रमित्यत्रान्वयः । 'छन्दसि परेऽपि व्यवहिताश्च' इति सूत्रात्केतवः प्रधानभूता अस्य सूर्यस्य रश्मयः किरणा जनेषु विशेषेण दृश्यन्ते ज्वलन्तोऽनय इवेत्यर्थः । अत्र भ्राजनम् , प्रकाशार्थतया सामान्यधर्मः । प्राचीनैरिति । 'इवेन सह नित्यसमासविधानात् तत्प्रयोगे उपमाया वाक्यगतत्वोदाहरणविरोधादिति तेषामाशयः । अन्यथेति । 'वामन इव' इत्येवमेव प्रयोगापत्तेः । जीमूतस्येवेति । 'जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समुदामुपस्थे । अनाविद्धया तन्वा जय त्वं सत्त्वा वर्मणो . महिमा पिपर्तु ॥' इति मन्त्रः । वर्मी कवची समदां शत्रूणां उपस्थे संनिधाने यदा याति गच्छति तदा तस्य वर्मिणो जीमूतस्य मेघस्येव प्रतीकमङ्गं भवति । नीलमेघ इव १. 'सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च' इति हि वार्तिकम्,